SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ रसरत्नसमुच्चयम् कंदुग्धप्लुतं ताम्रपत्रं द्विगुणगंधकम् ।। सिद्धि सप्तपुटैरेति ततः पंचामृतै ( : ) पुटैः ॥५१॥ लोहचूर्णं सहिगुलं मर्दितं त्रिफलाम्बुना | पुटैः सप्तभिरेवाशु कर्मयोग्यं च जायते ॥ ५२ ॥ गोजिह्वामीनाक्षी खलिकै रंडवारिभिः क्रमशः । कृष्णा पुटितमिदं बहुशो निश्चन्द्रतामेति ।। ५३ ।। अथ मेलनविधिः रसैवं विषशुल्वालो हैर्वासारसांचितः । सप्तकृत्वस्त्रिदोषांतकरोऽयं भैरवो भवेत् ||५४।। ।छ। वल्मेकं रसस्य (T) स्य दत्त्वा वा द्वितयं अनु । जातिफलं (शीत ) स्नानं सितां दध्यादि दापयेत् ।। ५५।। रस भा० २, विष भा० ९, शुल्व भा० १, अभ्रक भा० १, एकत्र कृत्वा अरडूसारसेन भा० ७, दत्त्वा गुटी वल्लद्वयप्रमाणा दातव्या ।। अनुपाने जातिफलं मुखे कार्यं । शीतलजलस्नानं । सिता दधिभक्तं च देयं । जलकुण्डान्तरन्यस्तसूतस्तम्भमूषिकः । अग्नीषोमाभिधो यन्त्रोऽवतं सितपुटानलः ।। ५६ ।। जलकुण्डमध्ये पतद्ग्रहमेकं विन्यस्य तस्य मध्ये स्तंभिकासंलग्नमूषायां रस भा० १, नाग भा० १, गंधक भा० १, तैलेन सह क्षिप्त्वा उपरितने पुटे कर्पूरं विन्यस्य त्रिभिः त्रिभिः छगणकैरर्ध्वपुटानि एकविंशति देयानि । एवं रसनागौ निष्पन्नौ । रस भा० १, मृतशुल्व भा० २, मृतलोह भा० १, मृताभ्रकं भा० १, विष भा० १, वासारस सप्तभावनां दत्त्वा गुटी कार्या । संनिपाते देया । महाभैरव रसः ॥ छ || शिष्य : श्रीदेवचन्द्रस्य रसरत्नसमुच्चयम् । चक्रे माणिक्यदेवोऽत्र वक्रे तरपदांचितम् ॥ १ ॥ इति परमजैनाचार्यसिद्ध श्रीमाणिक्यदेव विरचितायां रसामृतश्री तृतीयोऽधिकार समाप्तः ।। ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001918
Book TitleRasratna Samucchay
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherPrakrit Bharti Academy
Publication Year1986
Total Pages86
LanguageEnglish, Sanskrit
ClassificationBook_English & Medicine
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy