________________
४१
रसरत्नसमुच्चयम् त्रिकटु-गोक्षुर-धत्तूर कृतमाल-त्रिफलाभिरिति । ।छ। काचमाची रससर्षपतैलस्तोकगंधकयुतोऽथ रसेन्द्रः । गोमयस्थ-घटिकांतरसंस्थः स्वल्पवह्निपुटितो मुहुरेवम् ।।३४।। गंधके द्विगुरिणतेऽथ सुजीणे, जारयेत्तदनु हेम विशुद्धम् । बहिपित्तकटुतैलविमिश्रं, प्रामितार्थतुलिते क्षमवृत्त्या (?) ।।३।। ततः समुद्धृत्य रसं सुगंधात्, त्यक्त्वाम्बु मृष्टं शिखिकृष्णभृगैः । क्वाथीकृतैः स्विन्नमथाष्टसंख्यैः, पुटैर्भवेद्भस्म रसः स हेम: ॥३६।। स्वर्णपत्रमुपलिप्य कषायोन्मथितेन भसि (स्मि) तेन च तेन । भस्मतां नय रसाशयं दत्तै-रल्पवह्निपुटनैर्वसुसंख्यैः ।।३७।। अांतरालिकयंत्रेण पिष्टीभस्म प्रकल्पयेत् । ऊधिो गंधकं दत्त्वा तत् समंतः पुनः पुनः ।।३८।। अर्कक्षीरेण संस्कृत्य ह्यगारैः स्वेदयेदथ । हिरण्यगर्भनामायं रसो योगस्य वाहकः ॥३६॥
अथ नागेन्द्र रसः
रैवतांकुलकृशानुभिः पृथक्, मर्दितः तदनु कन्यया मुहु (:) । पारदस्तदनु नागगंधक-स्नेहमध्यतुटितोथ कल्कितः ।।४०।। व्योषोन्मत्तविषैर्युक्तः पूरजबीरनिम्बुकैः । साद्रकै वितो दत्तो विशूची हंति दुर्धराम् ।।४।।
अथ विश्वेश्वरः त्रित्रिकांबुदवेल्लाग्निकुष्ठामोदरसामृतैः । भुंगाम्बुकल्कितैविश्वेश्वरो नाम रसो मतः ।।४२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org