________________
४०
रसरत्नसमुच्चयम्
भांगि भा० ४, संठि भा० ४, मृतलोह भा० २, रसभस्म भा० १, कपित्थरसेन गुटी कार्या। परमेष विशेषः । प्रथममत्तितध्माततीक्ष्णलोहचक्रिकां मृतलोहावधूलितां कृत्वा सभृष्ट ईषदुष्णभांगीक्षौद्रमध्ये, ईषदुष्णं तत्लग्नं लोहचूर्णं पातनीयम् इति ।।छ।। कांतलोहमयपत्रमंडलं, गोजलत्रिफलाकल्कितम् । तापितं त्रिफल (1) गोजले क्षिप्तं, तूर्णमेव उपयाति चूर्णताम् ।।२७।। तीक्षिणका त्रिफलागव्य-मूत्रक्वाथसंपुटितमेकविंशतिः । सैंधवांशयुतितीक्षिणकारसैः, संचितं पुटशतेन सिध्यति ।।२८।। भृताभ्रकेण क्षयमेव दाम-मम्लेन तक्रेण ससैंधवेन । व्योषेण च स्वासमुपास्यमान-मयोरजः कृतति पथ्यभाज (1) ॥२६॥
तीक्षिणकेति-जवसिकामूलानि
अपि चतीक्ष्णस्य चूर्णंकलिताद्धगंध-सूतं कुमारीपयसा निधृष्टम् । पंकीकृतं कांस्यपुटांतरस्थं, सूर्यातपे मुक्तमुपैति मृत्युम् ।।३०।। लोहचूर्ण भा० २, रस भा० १, गंधक भा० १, कुमारीरसेन परिमद्य । (छ) कामलके कवलितक्षयक्षतः पांडुः, पांडुरितदेहमेहिनः । रूपसंपदमुपैति मानवो, लोहमन्वहमदो लिहन्निह ।।३१।। सशोफपांडुक्षयकामलास-प्रमेहहारिद्रहलीमकानि । निष्केवलं लोह मिदं निहंति, निषेवितं ध्यात्तिवता नरेण ।।३२।।
अथ हिरण्यगर्भ नामा रसः इष्टिका विषहुताशकुमारी-व्योषकंटिशठकणिगणालैः । शुद्धिमेति दृढ़खल्वनि विष्टो, मर्दितः क्रमवशादिति सूतः ।।३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org