SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २२ पित्तानि मीन- नर - के कि- लुलायु-मेषगोऽश्व ( ? ) करी रंगभवानि भवन्ति चाष्टौ । मण्डूक- मत्स्य मृग-गो-महिषाज्यजाताः, प्रोक्ता वसाश्च रसकर्मविधौ प्रशस्ताः || ८ || पीतारुणासित सितद्युतिष्पुपभाजों, भूमीरुहां रसविधावुपकारकं यत् । तद्ग्राह्यमङ्गममलं समये रसज्ञः, पत्र प्रसूनफलवल्कलमूलमुख्यम् ||३|| तिलातसीसर्षपवातवैरि-करञ्जधत्तूरककंगुणीनाम् । स्नेहानि सप्ताथ घृतानि धेनु-महिष्यजा विप्रभवानि च स्युः ॥ १० ॥ जीवजातिभवं किंचित् यत्र यत्रोपयुज्यते । जीवं संरक्ष्य तद्ग्राह्यं मृते चाकालयो गतः ।। ११।। रसरत्नसमुच्चयम् मलशिखिविषनामानो, रसस्य नैसर्गिकास्त्रयो दोषाः । मूर्च्छा मलेन कुरुते, शिखिना दाघं विषेण मृतिम् ||१२|| राजवृक्षो मलं हन्ति, पावकं हन्ति पावकः । अंकुल्लश्च विषं हन्यात्, कुमारी सप्तकञ्चुकैः || १३ || अथ विस्तरेण रसस्य प्रतिक्रिया कथ्यते व्योषाग्निराज्यार्द्रकमूलकंस्त्र्यहं मृद्वग्निना स्विन्नतनुस्तुषोदके । राजष्टिका धूमगुड़ा ब्धिजादिकैः, साम्लैस्त्र्यहं खल्वतलैर्दतस्ततः ॥ १४॥ इष्टिकास्त्रिफलाचित्रकैः पृथक्, मर्दितश्रिततुषोदकोत्थितः । शुल्वपिष्टिमिलितो मलोज्झित:, पातनमुपगतोऽथ निर्गतः ।। १५ ।। पक्षच्छेदमकृत्वा, रसबन्धं वांछले च यः सुधियः । सोही पदानि मृगयति, निशितमसि जले चिरगतस्य ।। १६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001918
Book TitleRasratna Samucchay
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherPrakrit Bharti Academy
Publication Year1986
Total Pages86
LanguageEnglish, Sanskrit
ClassificationBook_English & Medicine
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy