________________
। १३
चतुर्थो विवेकः बिलम्बयत्यदोषेऽपि, विरहोत्कण्ठितोत्सुका। हृष्टा वासकसज्जामन्यलंकृतिपरष्यति ।। २५।। सुभगम्मानिनी वश्यासन्ने स्वाधीनमतका।। सरन्ती सारयन्ती वा रिरंसुरभिसारिका ॥ २ ॥ भावाद्या यौवने स्त्रीणाम्, अलङ्कारास्त्रयोऽङ्गजाः । दश स्वाभाविकाते, क्रियास्पास्रयोदश ॥ २७ ।। सति भोगे गुणा: सप्तायत्नवाश्च स्वभावजाः । नावश्यम्भाविनोऽषा, विशतिः स्त्रीषु मुख्यतः ॥ २८ ॥ भावो वागादिवशिष्टयं, चिह्न रत्युत्तमत्वयोः । नेत्राविधिकृतं हावः सशृङ्गारमसन्ततम् ॥ २६ ॥ तदेव सन्ततं हेला, तारुण्योद्बोधशालिनी। रागादिना विपर्यासः, कियाणामय विभ्रमः ।। ३०॥ विलासः प्रियदृष्ट्यादी, चारुत्वं गात्र-कर्मणोः । वेषास्पतैव विच्छित्तिः, परां शोभा वितन्वती ।। ३१ ।। लीला दयित्वागादेः, स्वे न्यासो बहुमानतः । . विश्वोकोऽनादरो मान-दादिष्टेऽपि वस्तुनि ॥ ३२ ॥ विहृतं जल्पकालेऽपि, मौनं ह्री-व्याज-मौग्ध्यतः । ललितं गात्रसञ्चारः, सुकुमारो निरर्थकः ॥ ३३ ॥ कोष्टादिग्रहे कोपः मृषा कुटुमितं मुदि । मोट्टायितं प्रियेक्षादौ, रागतो गात्रमोटनम् ।। ३४ ॥ मुहुः स्मिताश्र-कम्पादेः सङ्करः किलि (ल) किंचितम् । मौज्ज्वल्यं यौवनादीनाम, मय शोभोपभोगतः ॥ ३५ ॥ सा कान्तिः पूर्णसम्भोगा, दीप्तिः कान्तेस्तु विस्तरः । सौम्यं तापेऽपि माधुर्यम्, पौदार्यमुचिताच्युतिः ।। ३६ ।। चेतोऽविकरथनं धैर्य, प्रागल्भ्यं कौशलं रते। यथोचित्यं च नेतृणां, नायिकाः कुलजादयः ।। ३७ ॥ सहायिन्यस्तु पात्रेयी-लिङ्गिनी-प्रातिवेशिकाः। शिल्पिनी-चेटिका-सख्यः, गुप्ता दक्षा मृदु-स्थिराः ॥ ३८ ॥ देवानीचनृणां पाठः, संस्कृतेनाथ जातुचित् । महिषी मन्त्रिजा-पण्यस्त्रीणामव्याजलिङ्गिनाम् ।। ३९ ।। बाल-षण्ढ-ग्रहग्रस्त-मत्त-स्त्रीरूप-योषिताम् । प्राकृतेनोत्तमस्यापि, वारिणश्वर्यमोहिनः ॥ ४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org