________________
परिशिष्ट [१] रामचन्द्र-गुणचन्द्रसंसूत्रितं नाट्यदर्पणम्
(मूलम्)
अथ नाटकनिर्णयः प्रथमो विवेकः चतुर्वर्गफलां नित्यं, जैनी वाचमुपास्महे । स्पदिशभिर्विश्वं, यया न्याय्ये धृतं पथि ॥ १॥ अभिनेयस्य काव्यस्य, भूरिभेदभृतः कियत् । कियतोऽपि प्रसिद्धस्य, दृष्टं लक्ष्म प्रचक्ष्महे ॥ २॥ नाटकं प्रकरणं च, नाटिका प्रकरण्यथ । व्यायोगः समवकारः भाणः प्रहसनं डिमः।। ३ ॥ मत ईहामृगो वीथी, चत्वारः सर्ववृत्तयः। त्रिवृत्तयः परे त्वष्टौ, कौशिकी-परिवर्जनात् ।। ४ ।। ख्याताधराजचरितं, धर्म-कामार्थसत्फलम् । सातोपाय-दशा-सन्धि, दिव्याङ्ग तत्र नाटकम् ॥ ५॥ उद्धतोदात्त-ललित शान्ता धीर-विशेषणा:। वा: स्वभावाश्चत्वारः, नेतृणां मध्यमोत्तमाः ॥ ६ ॥ देवा धीरोद्धता धीरोदात्ताः सैन्येश-मन्त्रिणः । धीरशान्ता वरिणग्-विप्राः, राजानस्तु चतुर्विधाः ॥ ७॥ धीरोद्धतश्चलश्चण्डः, दी दम्भी विकत्थनः ।। धीरोदात्तोऽतिगम्भीरः, न्यायी सत्त्वी क्षमी स्थिरः ।। ८ ।। शृङ्गारी धीरललितः, कलासक्तः सुखी मृदुः। धीरशान्तोऽनहङ्कारः, कृपालुविनयी नयी ॥ ६ ॥ मुख्यमिष्टफलं वृत्तम्, अङ्ग प्रासङ्गिक क्वचित् । सूच्यं प्रयोज्यमम्यूह्यम्, उपेक्ष्यं तच्चतुर्विधम् ।। १० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org