________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[८१
समर्थासमर्थसाधारणमुण्डमेलके कृतमपि कार्य न विशेषयेदिति यदि कश्चिद्भूयात्तत्राहचिरआलकविआणं धुआवमाणणि अलुण्णमन्तमुहाणम् । एसो णवर अवसरो असरिससमसीसबन्धणविमोक्खाणम् ॥८॥ [चिरकालकाङ्क्षितानां धुतापमाननिगलोन्नमन्मुखानाम् । एष केवलमवसरोऽसदृशसमशीर्षबन्धनविमोक्षाणाम् ।।]
असदृशेनायोग्येन कृतं यत्समशीर्ष स्पर्धा तदेव बन्धनमवज्ञारूपत्वात्तस्य विमोक्षाणां त्यागानामेष केवलमवसर । अत्रासमर्थाः पलायिष्यन्ते समर्थाः साधयिष्यन्तीति तत्कृतसादृश्यरूपबन्धनत्यागो हठादेव स्यादिति भावः। कीदृशानाम् । तादृक्कार्य कदापि लप्स्येत यतोऽयमपकर्षो गच्छेदिति चिरकालं व्याप्य काङ्क्षितानाम् । एवं धुतस्त्यक्तोऽपमान एव निगलस्तेनोन्न मन्मुखं येभ्यस्तेषाम् । तथा च यावदयोग्यस्पर्धारूपनिबन्धनं तावदपमानरूपनिगलसत्त्वे लज्जया मुखं नमति तद्वन्धनत्यागे त्वपमाननिगलशान्तौ मुखमुन्नमतीत्यर्थः । तथा चासमर्थाः कतिकपयो न स्पर्धामाचरन्ति तेभ्यो विशेष प्रतिपादयितुमयमेव काल इति भावः । अयोग्येन सह समशीर्ष समानशिरस्कत्वेन सभायामुपवेशनं तद्रूपबन्धनत्यागानाम् । अन्यसमानम् । इति केचित् ॥८॥
विमला-असदृश द्वारा की गयी स्पर्धा ( अवज्ञा रूप होने से ) एक बन्धन है। यह बन्धन' जब तक रहता है तब तक अपमान' के कारण सिर नीचा रहता है और उस बन्धन के त्याग से सिर पुनः ऊँचा होता है, अतः ऐसे चिराकांक्षित बन्धनत्याग का केवल यही अवसर है ॥८॥ प्रेष्या वयं प्रभोराज्ञामपेक्षाम इत्याशङ्कयाह
ते विरला सप्पूरिसा जे अभणन्ता घडेन्ति कज्जालावे। थोअच्चिअ ते वि दुमा जे अमुणिअकुसुमणिग्गमा देन्ति फलम् ।।६।। [ते विरलाः सत्पुरुषा येऽभण्यमाना घटयन्ति कार्यालापान् ।
स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् ॥] कार्यालापानालपितकार्याणि । कृदभिहितत्वात् । तथा चाभण्यमाना उक्तिमनपेक्ष्य ये कार्याणि घटयन्ति ते सत्पुरुषा विरलास्त्रिचतुरा एव । भवन्तस्तूक्तिमपेक्षमाणाः कापुरुषा इति भावः । अर्थान्तरं न्यस्यति-अज्ञातः कुसुमनिर्गमो येषां तथाविधा ये द्रुमाः फलं ददति तेऽपि वनस्पतयः स्तोका एव । तथा च द्रुमप्रायाः सत्पुरुषाः कुसुमनिर्गमप्रायाणि वचनानि फलप्रायं कार्यमिति । अभणन्त इति केचित् 'कज्जअलावे' इति पाठे कार्यकलापान ॥९॥
६ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org