________________
७० ]
[ द्वितीय
तम् । चन्द्रशैलानां चन्द्रकान्तमणिमयत्वेन तत्किरणेषु ज्योत्स्नाबुद्धया समुद्रजलवृद्धिर्वास्तव मयूखनिर्झरसंबन्धमूलकत्वेनोत्प्रेक्षिता । शश्येव शेलस्तस्य मयूखा एव निर्झरास्तैः परिवर्धितं यत्सलिलं तेन मृदितः पुलिनोत्सङ्गो यस्य तमिति वा । अन्यदपि जलं निर्झरान्तरसंबन्धेन वर्धत इति ध्वनिः ॥ ३४॥
सेतुबन्धम्
विमला - वायु द्वारा उछाले गये जल से प्रताडित होने के कारण समुद्र के तटवर्ती वन शब्दायमान होते हैं तथा शशिरूप शैल के मयूखरूप निर्झर से परिवर्धित सलिल समुद्र के पुलिन प्रदेश का आलिङ्गन करता है ||३४||
मन्दरमेहक्वोहिअससिकल हंसपरिमुक्कसलिलुच्छङ्गम् । मरगअसेवालोवरि गिसग्गतुहिक्कमोणचक्का अजुअम् ॥३५॥
[मन्दर मेघक्षोभितशशिकलहंसपरिमुक्त सलिलोत्सङ्गम् । मरकतशेवालोपरि निषण्णतूष्णीकमीन चक्रवाकयुगम् ॥]
मन्दर एव मेघस्तेन क्षोभित आन्दोलितः शश्येव कलहंसस्तेन परिभुक्तः सलिलोत्सङ्गो यस्य तम् । अन्यत्रापि मेघमालोक्य हंसा अपगच्छन्तीति ध्वनिः । तथा च मन्दरान्दोलनेन मुष्माच्चन्द्र उत्थित इत्यर्थः । एवं मरकत एव शेवालं तत्र निषण्णमुपविष्टं मीन एव चक्रवाकस्तद्युगं यत्र तम् । मन्दरपरिघट्टनभिया तूष्णींभूय मीनाः पातालमूले स्थितास्तेन तत्र मन्दरसंबन्धाभावादस्य गाम्भीर्यमुक्तम् । हंसपलायनं दृष्ट्वा भीतश्चक्रवाकस्तूष्णीं तिष्ठतीति ध्वनिः । चन्द्राभावेन चक्रयोमिलन मुचितमेवेति कश्चित् || ३५।।
विमला - मन्दराचलरूप मेघ से क्षुब्ध शशिरूप कलहंस ने समुद्र के जलभाग को परिमुक्त कर दिया तथा (हंस का पलायन देखकर एवं मन्दराचल के अभिघात से भयभीत होने के कारण ) मीनरूप चक्रवाकयुगल मरकतरूप शेवाल पर चुपचाप बैठा है ||३५||
पुण्णणइसोत्तसंहिजलमज्झम् णिज्ज माण चल तिमिणिवहम् । वलयामुहमूलसमोसर न्तम सिरासिकज्जलि अपाआलम् ॥३६॥
[पुण्यनदी स्रोतः संनिभजलमध्यज्ञायमानचलतिमिनिवहम् । वडवामुखमूलसमव सरन्मषीराशिकज्जलितपातालम्
॥]
Jain Education International
( आइकुलअम् )
( आदिकुलकम् )
पुण्यनदीनां गङ्गादीनां प्रवाहस्य तुल्यं यज्जलमध्यं तेन ज्ञायमानश्चलश्चलितस्तिमिनिवहो यत्र तम् । तिमिषु चलितेषु जलमध्ये प्रवाहा भवन्ति तैरनुमीयते
For Private & Personal Use Only
www.jainelibrary.org