SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] अत्र ग्रन्थसमाप्तिमाह एत्थ समप्पइ एअं सीमालम्भेण जनिअरामन्भुअमम् । रावणवह त्ति कव्वं अणुरामङ्कः समत्यजणणिव्वेसम् ॥६५॥ इअ सिरिपवरसेणविरइए कालिदासकए दहमुहवहे महाकाव्ये पश्व (न्द) रहो आसासओ परिसमत्तो रामसेतु प्रदीप - विमलासमन्वितम् [ अत्र समाप्यते एतत्सीतालम्भेन जनितरामाभ्युदयम् । रावणबध इति काव्यमनुरागाङ्कं समस्तजननिर्देषम् ॥ ] इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये पञ्चदश माश्वासः परिसमाप्तः एतद्रावणवध इति नाम काव्यमत्र समाप्यते । कविनेत्यर्थात् । कर्म कर्तरि वा । एतदेव स्कन्धकं तत्समाप्तिस्थानमित्यर्थः । किंभूतम् । सीताया लम्भेन प्राप्त्या जनितो रामस्याभ्युदयो यत्र वर्णितत्वेनेत्यर्थः । पुनः कीदृक् । सीतां प्रति रामानुरागस्य सेतुबन्धरावणवधादिरूपोऽङ्कचिह्न यत्र तद्गतज्ञापकत्वात् । अथ च अनुरागपदरूपोऽङ्कः प्रत्याश्वासकान्तेऽसाधारणं चिह्न यस्येत्यर्थः । एवं समस्तजनस्य द्वेषशून्यं सीताराम संबन्धित्वेनानुरक्तसर्वजन मित्यर्थः ||१५|| सीतासं प्राप्तिदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णा पञ्चदशी शिखा ॥ सेतुग्रन्थसमुद्रादर्था मणयो भयाकृष्टाः । उपदेश सहकृतेन्द्रियपटुभिः प्राज्ञः परीक्ष्यन्ताम् ॥ चतुर्भूत रिशीतांशु ( १६५२ ) भिरभिगणिते साहसाङ्कस्य वर्षे वर्षे जल्लादीन्द्र क्षितिमुकुटमणेरप्यनन्तागमा (४०) भ्याम् । पञ्चम्यां शुक्लपक्षे नभसि गुरुदिने रामदासेन राज्ञा विज्ञेनापूरितोऽयं तिथितुलितशिखो राम सेतुप्रदीपः ॥ सूर्याचन्द्रमसोरुदञ्चति कथा यावत्तथा दीप्यते यावत्कौस्तुभ कान्तिजालजटिला वैकुण्ठवक्षःस्थली । Jain Education International [ ६७५ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy