________________
६६६ ] सेतुबन्धम्
[पञ्चदश ततस्त्यागानन्तरं स रावणबाणः अर्धे पथि रघुपतिक्षिप्तः शर एव राहुस्तन्मुखे सूर्य मण्डल मिव निमग्नः । राहुणा भानुरिव रामशरेण कवलीकृत इत्यर्थः । सूर्यसाम्यमाह-कीदृक् । क्षयानलतुल्यः । आग्नेयत्वात् । एवम्-किरणसहस्र निध्रियमाणाः पूर्यमाणा दशदिशो येन स तथा। रविरप्येवमेवेत्यर्थ: ।।४।। _ विमला-तदनन्तर रावण का वह बाण प्रलयानलसदृश एवं सहस्र किरणों से दसो दिशाओं को व्याप्त करने वाले सूर्यमण्डल के समान आधे मार्ग में राम के शररूप राहु के मुख में पड़ गया और अदृश्य हो गया ।।७४।। अथ रामस्य चरमबाणसंधानमाहरहुणाहो वि सधीरं उक्करिसेण अग्गहत्थेऊण सरम् । पासण्ण लाइनव्वं पेच्छइ पेच्छइ फुल्लकमलाअरं व्व दहमुहम् ।।७।। [ रघुनाथोऽपि सधैर्यमुत्कृष्याग्रहस्तेन शरम् ।
आसन्न लवितव्यं प्रेक्षते फुल्लकमलाकरमिव दशमुखम् ॥] .. रघुनाथोऽपि सधैर्य यथा स्यादेवं हस्ताग्रेण शरमुत्कृष्य तूणादाकृष्य आसन्ने निकटे एव लवितव्यं छेदनीयं फुल्लकमलानामाकरं शर इव दशमुखं प्रेक्षते । अत्र नानाकमलतुल्यनानामुखसत्त्वादाकरत्वेन रावणस्योत्प्रेक्षा। मालिकोऽप्याकरे फुल्लपुष्पाणि प्रथमं पश्यति पश्चादवचिनोति इति तन्मुखानां पश्चाच्छेदनीयत्वं गम्यते ॥७॥
विमला-राम ने भी धैर्यपूर्वक हाथ के अग्रभाग द्वारा तरकस से बाण खींच कर विकसित कमलसमूह-से दसो मुंह को इसलिये पहिले देखा, क्योंकि देखने के बाद तुरन्त ही उसे छिन्न भिन्न करना था ।।७५।। अथ शरसंधानमाह
रामो संधेइ सरं विभीसणन्तेण बलइ रक्खसलच्छी। दहमुहविणासपिसुणं फुरइ अ सीताइ तक्खणं वामच्छम् ।।७६।। [ रामः संदधाति शरं विभीषणान्तेन वलति राक्षसलक्ष्मीः ।
दशमुखविनाशपिशुनं स्फुरति च सीतायास्तत्क्षणं वामाक्षि ॥]
रामः शरं धनुषि संदधाति । तथा सति रावणवधनिर्णयाद्राक्षसानां लक्ष्मी रामपक्षीयत्वेन' भयाभावापचितत्वाच्च विभीषणस्यान्तेन पार्श्वन वलति वक्रीभवति । तमाश्रयितुमुपक्रमत इत्यर्थः । अन्योऽपि भीतो भयहेतुपक्षीयमाश्रयत इति ध्वनिः । च पुनस्तत्क्षणमेव दशमुख विनाशसूचकं सत् सीताया वामाक्षि स्फुरति वेपते । स्त्रीणां वामाक्षिस्पन्दोऽभीष्टसूचक इति भावः ॥७६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org