SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ इति विज्ञापितदशमुखः पश्चिमसारथिकरस्थायिशीर्षकः । 11 आबद्धकवचमन्थरपदविक्रमभरनमद्विस्तृततडिमम् ध्वजशिखरस्थितजलधरमुच्यमानाशनिप्रतिफलितसूरकरम् । समरत्वरितो विलसति रथं श्रुतासन्नरामधनुनिर्घोषः ॥ ] ( युग्मकम् ) इत्यनेन प्रकारेण विज्ञापितो दशमुखो येन स मेघनादः समरत्वरितः सन् रथं विलसति आरोहति इत्यर्थः । इत्यग्रिमस्कन्धकेन समन्वयः । किंभूतः । पश्चि मेन पश्चाद्वर्तिना सारथिना करे स्थापितं शीर्षकं शिरस्त्राणं यस्य स तथा । रथं किभूतम् । आ ईषद्बद्धो यः कवचः तेन मन्थरयोर्यन्त्रणाद् गुरूकृत्योः पादयोर्विक्रमादुत्तरोहणाद्भरेण गौरवेण नमदधोगच्छद्विस्तृत तडिमं पश्चाद्वर्तिभित्तिभागो यस्य तम् । तथा च कवचं यथा तथा परिधायापि शीर्षकं न गृहीतवानिति त्वरातिशय उक्तः । पुनः किभूतम् । ध्वजानां शिखरेषु स्थितैर्जलधरैमुच्यमानेष्वशनिषु प्रतिफलिता: संक्रान्ताः सुरस्य करा यत्र तम् । इति वज्रषु रविकरसंघट्टादुद्योत प्रकर्षेण afseeपनम् । एतत्सर्वं मायाकल्पितमिति भावः । समरत्वराहेतुमाह — किभूतः । श्रुत आसन्नस्य निकटवर्तिनो रामस्य धनुर्निर्घोषो येन । इति रणोत्साह उक्तः ||३१|| - [ ६४७ विमला - रावण से इस प्रकार (पूर्वोक्त) निवेदन कर निकटवर्ती राम के धनुष का निर्घोष सुनते ही मेघनाद समर के लिये उतावला हो रथारूढ हुआ। जल्दी में उसने शिरस्त्राण नहीं ग्रहण किया, बाद में ( सेवक द्वारा लाकर दिये गये ) उसको पीछे बैठे हुये सारथि ने अपने हाथ में ले लिया । कबच को भी भलीभांति नहीं ( थोड़ा ही ) बाँध कर धारण किया, अतएव मन्थर पद को उठाकर रखने से दबकर रथ का पिछला भाग झुक गया एवं ध्वजशिखरों पर स्थित जलधरों से मुक्त किये गये वज्रों में सूर्य की किरणें संक्रान्त हो गयीं ॥। ३०-३१।। अथामुष्य प्रस्थानमाह इअ वारिअदहवणो दहवअणाणप्तिविलइउक्तिभरो। णीइ रहं आरूढो रक्खसपरिवारिथ्रो दसाणणतणो ||३२|| [ इति वारितदशवदनो दशवदनाज्ञप्तिविलगितोक्षिप्तभरः । निरेति रथमारूढो राक्षसपरिवारितो दशाननतनयः ॥ ] इत्यनेन प्रकारेण वारितदशवदनो राक्षसः परिवारितो वेष्टितश्च दशाननतनयो रथमारूढः सन् निरेति । रणाय निर्गच्छतीत्यर्थः । किंभूतः । दशवदनस्याज्ञया विलगित योजितसन्नुत्क्षिप्त उत्थापितो भरः संग्रामरूपो येन स तथा । अन्यत्रापि समर्थेन केनचिदर्पितं भारादि समुत्थाप्यते इति ध्वनिः ||३२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy