________________
६१६ ]
सेतुबन्धम्
[ चतुर्दश
ततः सीतादर्शनानन्तरं राघवः परिदेवनं प्रलापं कर्तुं प्रवृत्तः । किंभूतः । गतेन मोहेन मूर्च्छ या उन्मीला नयनोन्मीलनं यस्य तथाभूतः सन् सुमित्वातनयं प्रेक्ष्यमाणः । ज्ञानानन्तरं तस्मिन्नेव दृष्टि: पतितेति स्नेहातिशय उक्तः । अत एव तत्क्षणे प्रभ्रष्टं विस्मृतं सकलं सीतादुःखं येनेति ततोऽप्यधिक: पक्षपात उक्तः ॥४२॥
विमला-सीता द्वारा राम का दर्शन होने के अनन्तर मूर्छा चली जाने से राम के नेत्र खुल गये और नेत्र खुलते ही (स्नेहातिशय के कारण ) लक्ष्मण की ओर देखते हुये उस समय सीता के सकल दुःख को भूल कर विलाप करने लगे ॥४२॥ अथ लक्ष्मणोत्कर्षपरं प्रलापवाक्यमाह--
जस्स सअलं तिहअणं प्रारुहइ घणुम्मि संसअं आरूढे । सो वि हओ सोमित्ती णस्थि जए जंण एइ विहिपरिणामो ॥४३।। [ यस्य सकलं त्रिभुवनमारोहति धनुषि संशयमारूढे ।
सोऽपि हतः सौमित्रिर्नास्ति जगति यं नैति विधिपरिणामः ॥] सोऽपि सौमित्रिर्लक्ष्मणो हतः । यस्य धनुषि आरूढे सज्जे सति सकलं त्रिभुवनं संशयमारोहति । स्थास्यति न वेति संदेहविषयीभवतीत्यर्थः । अर्थान्तरं न्यस्यति-जगति स नास्ति यं विधेरदृष्टस्य परिणामो नैति नागच्छति । तथा च--सर्वमप्य दृष्टवश्यम्, अत एव परैरपरिभाव्योऽप्ययं हत इति भावः ॥४३॥
विमला-जिसका धनुष उठने पर त्रिभुवन की स्थिति सन्देह में पड़ जाती थी वही लक्ष्मण ( आज ) खो गया। संसार में कौन ऐसा है, जिसे भाग्य का परिणाम नहीं भुगतना पड़ता ॥४३।। अथात्मगर्हणापरं तद्वाक्यमाह
अहवा अं कअकज्जो मज्झ कए मुक्कजीविओ सोमित्ती। णिप्फलवू ढभु अभरो णवर मए च्चेअ लहुइओ अप्पाणो ॥४४॥ [ अथवायं कृतकार्यो मम कृते मुक्तजीवितः सौमित्रिः ।
निष्फलव्यूढभुजभरः केवलं मयैव लघकृत आत्मा ।। ] __ अथवायं सौमित्रिर्मम कृते मन्निमित्तं मुक्तजीवितो यतस्तत एव कृतकार्यः, एवंविधकीर्तिरेव महत्कार्यम् । तथा सति मरणेऽपि न क्षतिरिति भावः । केवलं मयवात्मा लघूकृतः । कुत' इत्यत आह-आत्मा कीदृक् । निष्फलं यथा भवति तथा व्यूढी धृतौ भुजावेव भरौ भारी येन स तथा। तथा च-लक्ष्मण रक्षाबन्ध्यत्वाद्भारत्वमेव भुजयोर्न तु सफलत्वमिति भावः ॥४४।।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org