________________
आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [६०७ वित्यर्थात् । भिन्दन्तो दशन्तः सन्तः शरा मुखस्य भुजनिविष्टत्वेनाग्नेरप्रकाशे सति ऋजुकृतदेहत्वात् । अथ तयोर्भुजासु दर ईषन्निभिन्नं दष्टं यैस्तथाभूताः कृतकिचिदंशाः । अथ च भ्रमणशीला भोगेन वलयाकाराः सन्तो भुजङ्गा भवन्तीति सर्वत्र संबध्यते । तथा च वस्तुतस्ते (न) भजङ्गा एव, किं तु सांनिध्यक्रमेणावयवप्रकाशक्रमेण मायया वा तथा तथा प्रतिभासन्त इत्यर्थः ॥२१॥
विमला-वे भुजङ्गरूप बाण पहिले नभ के अग्रभाग में रविबिम्बतुल्य, तदनन्तर आधे आकाश से गिरते हुये प्रलयकालीन उल्का के सदृश, तदनन्तर ( भुजाओं का ) भेदन करते हुये भुजाओं में थोड़े-सा प्रविष्ट होकर [भ्रमणशील ] शरीर से वलायकार हो गये ।।२१।। अथ वानरादिचेष्टामाहबज्झन्ति दहरहसुआ दरभग्गमणोरहा किलिम्मन्ति सुरा। अद्दिमेहणाआ उण्णामिअपव्वा भमन्ति पवङ्गः ॥२२॥ [ बध्येते दशरथसुतौ दरभग्नमनोरथाः क्लाम्यन्ति सुराः ।
अदृष्टमेघनादा उन्नामितपर्वता भ्रमन्ति प्लवङ्गाः ॥] दशरथसुतौ बध्येते । नागपाशैरित्यर्थात् । तयोर्नारायणरूपत्वेन अल्पभग्नो रावणवधरूपो मनोरथो येषां तथाभूताः सन्तः सुराः क्लाम्यन्ति । किमकस्माज्जातमिति सचिन्तत्वात् । एवम्--न दृष्टो मेघनादो पैस्तादृशाः प्लवङ्गा उत्थापितपर्वताः सन्तो भ्रमन्ति दिशि दिशि गच्छन्ति । केनेदं कृतमिति जिज्ञासयेत्यर्थः ॥२२॥
विमला-राम और लक्ष्मण नागपाश से बाँध लिये गये, अतएव देवता ( राम के द्वारा रावणवधरूप ) मनोरथ के भग्न हो जाने से व्याकुल हो गये तथा वानर भी मेघनाद को देख न पाने के कारण पर्वत को उठाये हुये इधरउधर घूमते रहे ॥२२॥ अथैषामवस्थामाहरसइ णहम्मि णिसि अरो भिमभिण्णहिअ दिसासु कइबलम् । भिज्जन्तो वि ण मिज्जइ रिउदसणादिण्णलोअणो दासरही ।।२३।। [ रसति नभसि निशिचरो भिन्नमभिन्नहृदयं दिक्षु कपिबलम् ।
भिद्यमानोऽपि न भिद्यते रिपुदर्शनदत्तलोचनो दाशरथिः ।।]
नभसि निशिचरो मेघनादो रसति शब्दायते । तयोर्बन्धनादास्फोटनमाचरतीत्यर्थः । अभिन्न हृदयमपराङ्मुखचित्तं कपिबलं दिक्षु भिन्नं तदनुसंधानाय घृणितम् । दाशरथी रामो भिद्यमानोऽपि नागपाशः खण्डयमानोऽपि न भिद्यते न पराङ्मुखचित्तो भवति। शौर्य सत्त्वात् । कीदक । रिपोरिन्द्रजितो दर्शने दत्ते लोचने येन स तथा । दाशरथिरिति लक्ष्मणसाधारण्याय जातिपरमिति केचित् ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org