________________
६०२ ]
सेतुबन्धम्
[ यो यत्रैव दृष्टः श्रुतो यत्र यस्य विगलितोऽपि निनादः । चलितश्च यो यत्रैव तस्य तत्रैव निपतिता रामशराः ॥ ]
यो वीरो यत्रैव दृष्ट:, तथा तस्य वीरस्य यत्रैव विगलितोऽभ्युत्थितोऽपि निनादः श्रुतः, तथा यश्च वीरो यत्रैव चलितः, तस्य कृते तत्रैव रामशरा निपतिता इति क्रमेण दृष्टवेधित्वं शब्दवेधित्वमश्रुतादृष्टवेधित्वं च शराणां सूचितम् ||१०||
| चतुर्दश
विमला - जो जहाँ पर दिखायी पड़ा, जिसका जहाँ पर मुख से निकला निनाद ( शब्द ) सुनायी पड़ा तथा जो जहाँ से चला उसके लिये वहीं राम के बाण जा गिरे ॥१०॥
तमेवाह
अहस्थिभडतुरङ्गा दोहा दीसन्ति तम्मि रक्ख ससेण्णे । श्रग्गवखन्धपत्ता कूलं भेत्तूण णिग्गओ रामसरा ।।११।। [ हतहस्तिभटतुरङ्गा दीर्घा दृश्यन्ते तस्मिन् राक्षससैन्ये । अग्रस्कन्धप्रवृत्ताः कूलं भित्त्वा निर्गता रामशराः ॥ ]
तत्र राक्षससैन्ये अग्रस्कन्धेन सेनामुखेन प्रवृत्ताः प्रविष्टाः कूलं पश्चाद्भागं भित्त्वा निर्गता रामशरा हता हस्तिनो भटास्तुरङ्गाश्च यैस्तथाभूताः सन्तो दीर्घा धाराकारा दृश्यन्ते । एकैकपृष्ठलग्नाः परे परे गच्छन्तीत्यर्थः । यद्वा दीर्घाकारेण हतं हस्त्यादि पतितं दृष्ट्वा सेनाया मुखे प्रविश्य पश्चान्निर्गता धारावाहिनो रामशरा इत्यनुमित्या विषयीक्रियन्त इत्यर्थः । दृशेरुपलब्धिपरत्वादित्या
शयः ।। ११ ।।
विमला - राम के [ दीर्घ ] धाराप्रवाह बाण हाथी, घोड़े, भट को मार कर राक्षसेना के अग्रभाग में प्रविष्ट होकर पिछले भाग तक के वीरों को छिन्न-भिन्न कर निकले हुये दिखायी दिये ||११||
तमेवाह
जं चित्र उअलद्धभअं काहिइ समअं पडाइअव्वारम्भम् । तं रामसराहिहअं दिट्ठ णवर पडिअं णिसा अरसेण्णम् ॥ १२ ॥ [ यदेवोपलब्धभयं करिष्यति समं पलायितव्यारम्भम् । तद्रामशराभिहतं दृष्टं केवलं पतितं निशाचरसैन्यम् ॥ ]
तन्निशाचरसैन्यं रामशरैरभिहतं सत्केवलं पतितं दृष्टम् । तत्किम् । यदेव उपलब्धभयं सत्सममेकदैव पलायितव्ये पलायते । भावे तव्यः । आरम्भमुद्यमं करिष्यति । तथा च - शूराः पलायितान्न निघ्नन्तीति पुराणश्रुत्या पलायनोद्यमपूर्वकाल एव रामेण हतमिति भावः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org