________________
५६४]
सेतुबन्धम्
[त्रयोदश
निशिचरशरनिर्दारितवानरदेहरुधिरारुणदिशाभोगम् । वानरप्रहारप्रवर्तितराक्षसरुधिरोधकर्दमितभूमितलम् ॥ रिपुशुलदुःखितावह्रियमाणवालिसुतदत्तवानरशोकम् । शैलाभिघातमूच्छितदशमुखतनयभयभिन्नरजनीचरबलम् ।। तारातनयविशेषितरजनीचरप्रवृत्तप्लवगसैन्यकलकलम् । मन्दोदरीसुतदुःखितवानरपरितोषमुखरराक्षसलोकम् ॥ भुजपतितनिष्फलपरिघभङ्गहेलाहसद्वानरयोधम् उरोभिन्नशिलातलमेघनादमुक्ताट्टहासपाण्डुरितनभः ॥]
(आदिकुलकम् ) इति वक्ष्यमाणप्रकारेण इन्द्रजिद्वालिसुतयोस्तद्युद्धं परं प्रमाणमुत्कर्षकाष्ठां गतमपि वर्धते । पूर्वपूर्वतोऽप्युत्कृष्टं भवतीत्यर्थः । किंभूतम् । समः प्रतिहस्तः परप्रहारनिवारणादिरूपा प्रतिक्रिया प्रतिपक्षो वा यत्र । एवम्-वारंवारं बलाभ्यां दत्तः साधुकारो यत्र । स्वस्वपक्षव्यापारोत्कर्षादित्यनेन सह सप्तभिरादिकुलकम् । किंभूतं युद्धम् । अस्त्रीकृतवृक्षस्य कुसुमानां मध्येन निर्गतैरिन्द्रजितः शरैः पुङ्खवालग्नाः सन्तो नीयमाना मधुकरा यत्र । मधुसंबन्धेन मधुपा अपि पुढे लग्ना गच्छन्तीत्यर्थः । एवम्-अपूर्वयुद्ध दर्शनीय निर्व्यापाराभ्यां युद्धभूम्यस्त्रगतागतमार्गयोस्त्यागाय चापसृतस्थिताभ्यां पार्श्वयोः पश्चाद्वर्तिभ्यामुभयोराविग्नाभ्यां स्वस्वप्रभुमरणशङ्क योद्विग्नाभ्यां सैन्याभ्यां विस्मयेन दृष्टम् । उभयमिति सैन्यविशेषणं वा । 'एज्जमाण' इति पाठे शराणां पुङ्खालग्नाः सन्तो ज्ञायमाना मधुकरा यत्रेत्यर्थः । एवम्-दशमुखतनयेन विसृष्टः शरै तात्पूरितान्नभोङ्गणादुत्पतितः प्रहारवारणायोवंगतो वालिसुतो यत्र । एवम्-वालिसुतेन रोषतः प्रेषितैः शालो वृक्षः शिलाः शैलाश्च ते रुद्धो न तु प्रतिहतः । प्रतिक्रियासत्त्वात् । दशमुखतनयो यत्र तत् । एवम्-निशिचरस्येन्द्रजितः शरैर्निर्दारितो वानर स्याङ्गदस्य यो देहस्तस्य रुधिरैररुणस्ताम्रो दशानां दिशामाभोगो विस्तारो यस्मात् । एवम्-वानरस्याङ्ग. दस्य प्रहारः प्रवर्तितेनोत्पादितेन राक्षसस्येन्द्रजितो [देहस्य] रुधिरोघेन कर्दमितं भूमितलं यस्मात्तत् । एवम्-रिपोरिन्द्रजितः शूलेन दुःखितः सन्नवह्रियमाणोऽवपात्यमानो यो वालिसुतस्तेन दत्तो बानरेभ्यः शोको यत्र । तन्मरण संदेहात् । एवम्-शैलाभिघातान्मूच्छितेन दशमुखतनयेन हेतुना भयेन भिन्नं पृथग्भूतं पलायितं रजनीचरबलं यस्मात्तत् । एतन्मूर्च्छया वानरप्रसरशङ्कावशादिति भावः । एवम्-तारातनयेनाङ्गदेन विशेषितोऽतिक्रान्तो यो रजनीचरः शक्रजित्तेन हेतुना जातानन्दत्वात् प्रवृत्त उत्पन्नः प्लवगसैन्यस्य कलकलो यत्र तत् । एवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org