________________
आश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
५६७
शौण्डीर्यमाचरन्ति यथा सर्वेषामप्यक्षुब्धत्वेन प्रतिभासन्त इति प्रतापरक्षा भवतीत्यर्थः । प्रहारैश्छाया रक्ष्यते । तत्रैव तथा प्रहरन्ति यथा कान्तिरक्षा भवतीत्यर्थः । विक्रमैः परिजनः । संकटपतितः सेवकादिः पराक्रम्य रक्ष्यत इत्यर्थः । जीवेन वाभिमानो गर्वः । अतिसंकटे जीवनमप्युपेक्षन्ते नतु परावृत्त्य गर्वं नाशयन्तीत्यर्थः । शरीरेण च यशः । परप्रहारोपस्थितौ शूरचिह्नमभिमुखक्षतादिकमप्यङ्गीकृत्य यशो गृह्णन्ति नतु शरीरे लावण्यव्ययभिया दयां कुर्वन्तीति सत्त्वोद्रेकः सूचितः । रक्ष्यत इति सर्वत्रान्वितम् । अतः क्रियादीपकम् ||३५||
विमला - शूर अपने युद्धकौशल से ( अक्षुब्ध प्रतीत होते हुये ) प्रताप की, प्रहार से कान्ति की, विक्रम से परिजनों की, जीव देकर अभिमान की तथा शरीर देकर महान् यश की रक्षा कर रहे थे ||३५||
रक्षसां रणाभिलाषमाह -
भिज्जइ उरो ण हिअअं गिरिणा भज्जइ रहो ण उण उच्छाहो । छिज्जन्ति सिरणिहाम्रा तुङ्गा ण उण रणदोहला सुहडाणम् ||३६|| [ भिद्यते उरो न हृदयं गिरिणा भज्यते रथो न पुनरुत्साहः ।
छिद्यन्ते शिरोनिघातास्तुङ्गा न पुना रणदोहदाः सुभटानाम् ॥ ] सुभटानामुरो वक्ष:स्थलं शस्त्रैर्भिद्यते । नतु हृदयं चित्तं भिद्यते । क्षतादपि मनो रणोत्सुकमेव तिष्ठतीत्यर्थः । एवम् — कपीनामस्त्रेण गिरिणा रथो भज्यते न पुनः समरोत्साहो भज्यते । किं तु रथभङ्गे सति दीप्यत इत्यर्थः । एवम् — शिरोनिघाताश्छिद्यन्ते । निघातः समूहः । न पुना रणदोहदा रणाभिलाषाः । ते तु मरणोत्तरमम शरीरेऽप्यनुवर्तन्ते इति जिगीषुत्वमुक्तम् ||३६||
विमला - सुभटों का उर ( वक्षःस्थल ) विदीर्ण हो गया; किन्तु हृदय ( मन ) नहीं ( वह रणोत्सुक ही रहा) । ( कपियों के अस्त्ररूप ) पर्वतों से रथ भग्न हो गया, किन्तु उत्साह नहीं ( अपितु वह बढ़ता गया ) । तुङ्ग शिरःसमूह छिन्न हो गये, किन्तु रणाभिलाष नहीं ( रणाभिलाष बना ही रहा ) ॥ ३६ ॥
अथ प्रथमोत्थितरजः प्रशममाह-
सेलोज्झरे हि गअणे धुनलोहिअसी अरेहि धारामागे ।
मप्र सलिलेहि धडासु अ वोच्छिउजइ पसरिअं महिरउट्ठाणम् ॥३७॥ [ शैलनिर्झरै गगने धुतलोहितशीकरैर्धारामार्गे ।
मदसलिलैर्घटासु च व्यवच्छिद्यते प्रसृतं महीरजउत्थानम् ॥ ]
प्रसृतमूर्ध्वाधोब्यापि महीरजसामुत्थानमुद्गमो गगने कपिभिरुत्तोलितानां शैलानां निर्झरेर्व्यवच्छिद्यते प्रशाम्यते । एवम् -- धारामार्गे रणस्थाने धुतैरितस्ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org