________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[३६
तया प्रज्ज्वलितः । दीप्त इत्यर्थः । एवम्, रोष एव पवनस्तेनाहतः सन्नद्धतो मुखरः शब्दायमानः । तथा च वैरेण प्रदीप्ताः क्रोधेन कृतकोलाहलाः कपयो रामपृष्ठलग्नाश्चेलुरिति भावः । वह्निरपि काष्ठसंबन्धात्प्रज्ज्वलितो वायुसंबन्धादुद्धतं रसम्वर्धते गगनव्यापी च भवति ॥५॥
विमला-श्रीरामजी के पीछे चलता हुआ, लङ्कारूप वनराजि को भस्म करने के लिए कपिसमूहरूप दावानल, वैररूप काष्ठ से प्रज्ज्वलित एवं रोषरूप पवन से प्रचण्ड तथा शब्दायमान हो बढ़ा ॥५१॥ अथ रामप्रस्थानावस्थामाहवच्चइ अचडुलके सरसडुज्जलालोअवाणरपरिक्खित्तो। सव्वदिसामाप्रविप्रपलप्रपलित्तगिरिसंकुलो व्व समुद्दो ॥५२॥ [व्रजति च चटुलकेसरसटोज्ज्वलालोकवानरपरिक्षिप्तः ।
सर्वदिगाकृष्टप्रलयप्रदीप्तगिरिसंकुल इव समुद्रः ।।] व्रजति च राम इत्यर्थात् । किंभूतः । चटुलाः संचारे सति चञ्चला याः केसरसटास्तासामालोकस्तेजो यत्र तथाभूता ये वानरास्तैः परिक्षिप्तो वेष्टितः । संचारे सति रवितेज च्छटासंपर्कात्सटानामपि तेजोविशेषप्रतीतिरिति भावः । क इव । समुद्र इव । सोऽपि कीदृक । सर्वदिग्भ्य आकृष्टाः प्रचण्डानिलेन वर्तुलीकृता प्रलये दह्यमाना ये गिरयस्तैः संकुलो व्याप्तः । तथा स्वभावतो निश्चल एव समुद्रः प्रलयवशान्मर्यादामतिक्रम्य जगदाक्रम्यति तथा धीरोऽपि रामो रावणप्रलयमिव कर्तुमुत्पथचरो निखिलमाचक्रामेति भावः । कपीनां पिङ्गलत्वात्कोपवशादुष्णत्वाच्च दह्यमानगिरिसाम्यम् । यद्वा समुद्रश्चलतीति योजनीयम् । कोदृक् । तथाभूतवानरवेष्टितः । तेषु चलत्सु भूमेरवनमनात्समुद्रस्योत्पथगामित्वेन तज्जलानामवैवागमनाकपिवेष्टितत्वमिति भावः । एतदेवोत्प्रेक्षते-तथाभूतगिरिसंकुल इव । शेष समानम् ॥५२॥
विमला-चञ्चल केसरसटा के उज्ज्वल तेज वाले वानरों से परिवृत राम, सब दिशाओं से खींच-खींच कर एकत्र किये गये, प्रलयकाल के प्रज्ज्वलित पर्वतों से व्याप्त समुद्र के समान गमन कर रहे हैं ॥५२॥ अथ रामस्य दिङ्मोहमाह
घोलन्ति णिम्मलामो फुरन्तदिनसमरपाअडिग्ररूआनो। बाविसमग्गम्मि वि से हिनए सोअन्धमारिअम्मि विसामो ॥५३॥ [ घूर्णन्ते निर्मलाः स्फुरद्दिवसकरप्रकटितरूपाः । दर्शितमार्ग इव यस्य हृदये शोकान्धकारिते दिशः ।। ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org