________________
द्वादश आश्वासः अथ प्रत्यूषमाहताव अ दरबलि उप्पलपलोधूलिमइलन्तकलहंसउलो। जाओ दरसंमोलिअहरिआअन्तकुमुआअरो पच्चूसो ॥१॥ [ तावच्च दरदलितोत्पलप्रलुठितधूलिमलिनायमानकलहंसकुलः ।
जातो दरसंमीलितहरितायमानकुमुदाकरः प्रत्यूषः ॥] यावत् प्लवङ्गकलकलः श्रुतः, सीता विलापादुपरता वा, तावदेव प्रत्यूषो जातः । कीदृक् । दरदलितेभ्य ईषद्विकसितेभ्य उत्पलेभ्यः प्रलुठिताभिनिर्गताभि—लीभिर्मलिनायमानानि कलहंसानां कुलानि यत्र सः । तथा-न केवलमुत्पलानां विकासारम्भः, किंतु कुमुदानामपि मुद्रणारम्भ इत्याह-दरसंमीलितानि किंचिन्मुकुलितानि अत एव हरितपृष्ठस्य प्रान्तपत्रचतुष्टयस्योपरि स्थित्या हरितायमानानि कुमुदानि यत्र तथाभूता आकरा. सरोवरादयो यत्र ॥१॥
विमला-तब तक प्रभात हो गया। कमल कुछ-कुछ विकसित हो गये। उनसे निकले हुये रज से कलहंस मलिन होने लगे। सरोवरों में कुमुद कुछ-कुछ मुंद गये तथा ( नीचे के चार पत्तों, जिनका पृष्ठभाग हरा होता है-के ऊपर हो जाने से ) हरे वर्ण के दिखायी देने लगे ॥१॥ अथ निशावसानमाह
अरुणासम्बच्छाओ णवसलिलाकलुसन्धिमाहप्रमूलो । धाउकलङ्कक्खउरो ओसरह तडो व रमणिपच्छिमभाओ ॥२॥ [ अरुणाताम्रच्छायो नवसलिलाकलुषचन्द्रिकाहतमूलः ।।
धातुकलङ्ककलुषोऽपसरति तट इव रजनीपश्चिमभागः ॥] रजन्याः पश्चिमो भागश्चरमयामोऽपसरति । प्रभातं जातमित्यर्थः । कीदृक् । अरुणेनारुणोदयेन संध्यारागेण वाताम्रच्छायः । एवं नवसलिलं वन्या(?)तोयं कर्दमाविलत्वात्तद्वदाकलुषा प्राभातिकत्वाद्धूसरा या चन्द्रिका तयाहतं स्पृष्टं मूलं यस्य । उदयाचलावच्छेदोऽग्रभागस्तत्रारुणसंबन्धात्ताम्रत्वम् । अस्ताचलावच्छेदो मूलभागस्तत्राविलचन्द्रिकासंबन्धासरत्वमिति भावः । तट इव । यथा धातुकलङ्कन गैरिकक्षोदेन कलुषो विचित्रो नद्यादीनां तट: कलुषवन्याजलाहतमूलः सन्नपसरति पतति सोऽपि धातुयोगात्ताम्र इत्युपमा । यद्वा-रजनिशेषः पश्चिमाचलस्यैवारुणत्वाद्गरिकमयस्तटश्चन्द्रिकारूपजलाहतमूलत्वात्पततीत्युत्प्रेक्षा ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org