________________
४७६]
सेतुबन्धम्
[एकादश
चीयमानत्वात् । यद्वा--संप्रति पुनदर्शनशङ्काविरहेण स्वस्माद्वहिर्भवदपि मनो न स्वास्पदीकरोति । अनन्तरं चिन्त्यमाने विचार्यमाणे सति न विज्ञायते जीवितं केन संरुद्धम् । तथा च बाष्पहृदयजीवितानाभ्यन्तरमेकमेव स्थानं तत्र तदुभयोरव. रोधः केनापि न क्रियते जीवितस्यैव परं क्रियत इति विधिना किमपरं दर्शनीयास्मीति भावः। केचित्तु--मुखं बाष्पं न धारयति । अश्रु विनैव रोदनम् । रामदर्शनप्रत्याशापि नास्तीत्युभयं मरणलक्षणम् ; तथापि यत्र म्रिये तन्न जानामि जीवितं केन रुद्धमित्यर्थमाहुः ।।८२॥
विमला-मुख आँसुओं को नहीं रोक रहा है, राम के पुनर्दर्शन की आशा हृदय को नहीं रोक रही है, पता नहीं मेरे जीवन को कौन' ( जाने से ) रोके हुए है ।। ८२ ॥
वोलीणो मअरहरी मज्झ कएण मरणं पिदे पडिवण्णाम् । णिवढं णाह तुमे अज्ज वि धरइ अकअण्णअ मह हिअअम् ॥५३॥ [ व्यतिक्रान्तो मकरगहो मम कृतेन मरणमपि ते प्रतिपन्नम् । निव्यूढं नाथ त्वयाद्यापि ध्रियतेऽकृतज्ञं मम हृदयम् ॥]
ते त्वया मम कृतेन कारणेन मकरगृहः समुद्रो व्यतिक्रान्तो लचितः। किमपरम् । मरणमपि प्रतिपन्नं स्वीकृतम् । हे नाथ ! अतस्त्वया नियूं ढं निस्तीर्णमद्यापीदशत्वद्वयापारोत्तरमपि मम हृदयमकृतज्ञं यतः, ततो ध्रियते तिष्ठति । स्थातुं न युक्तमित्यर्थः । 'धृङ् अवस्थाने' धातुः । तथा च-अतः परमस्यानुमर्तुमुचितम्, तत्र करोति चेत्तदा यत्त्वया कृतम्, तत्र जानातीत्यकृतज्ञत्व मिति भावः ॥८३॥
विमला-मेरे ही लिये आप ने समुद्र लांघा। इतना ही नहीं, आप ने अपना मरना भी स्वीकार किया । इस प्रकार आपने अपने कर्तव्य-पालन से अपना तो निस्तार कर लिया, किन्तु आपके इतना त्याग करने पर भी मेरा अकृतज्ञ हृदय रुका हुआ है ।। ८३॥
उग्गाहिइ राम तुमं गुणे गणेऊण पुरिसमइओ त्ति जणो। गलिधमहिलासहावं संभरिऊण अममं णिअत्तिहिइ कहम् ॥८४॥ [ उद्गास्यति राम त्वां गुणान्गणयित्वा पौरुषमय इति जनः ।
गलितमहिलास्वभावां संस्मृत्य च मां निवर्तयिष्यति कथाम् ।।] हे राम ! जनस्ते गुणाञ्शौर्यादीन्गणयित्वा त्वां पौरुषमय इति कृत्वोद्गास्यति स्तोष्यति । उद्गाहयिष्यत्युदाहरिष्यतीति वा । तत्रैव गलितो महिलायाः स्वभावः पत्यनुमरणादिर्यस्यास्तथाविधां मां संस्मृत्य कथामेव निवर्तयिष्यति। समासच्चरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org