________________
३० ]
सेतुबन्धम्
[प्रथम
तत्पश्चात् (श्रीराम की आकाङ्क्षा के क्रम से ) वाणी द्वारा सम्पूर्ण समाचार विस्तार से कह सुनाया ।। ३७ ॥ अथ हनू कन्तं प्रति रामव्यापारमाहविट्ठ त्ति ण सद्दाहों झीण ति सबाहमन्थरं जीससिअम् । सोइ तुमं ति रुण्णं पहुणा जिअइ ति मारुई उवऊढो ॥३८।।
[ दृष्टेति न श्रद्धितं क्षीणेति सबाष्पमन्थरं निःश्वसितम् ।
शोचति त्वामिति रुदितं प्रभुणा जीवतीति मारुतिरुपगूढः ।। अत्र रामः प्रश्नकर्ता हनूमानुत्तरयिता । तथा च सीता दृष्टेति प्रश्ने दृष्टेत्युत्तरम् । तत्र प्रभुणा रामेण न श्रद्धितं श्रद्धाप्रत्ययो न कृतः । रावणान्तःपुरवर्तिन्या राक्षसीलक्षपरिवृत्तायाः सीतायाः कथमस्य वान रस्य दर्शनं स्यादिति भावः । कीदृशीत्यवस्थाप्रश्ने क्षीणेत्युत्तरम् । तत्र सबाष्पं सोच्छ्वासं च तन्मन्थरं यथा स्यात् । अथ वा बाष्पोऽश्रु तन्मान्थर्यसहितं यथा स्यादेवं निःश्वसितम् । मद्विश्लेषेण क्षण्यमस्या युज्यत एवेति प्रतीतेन मयि जीवत्येव मत्प्रेयसी ईदृशीमवस्थामयासीदित्यन्तःखेदान्निःश्वास इति भावः। तन्मान्थर्यं च तथा कृत्वापि रावणो ध्रियत इत्यन्तमन्यूत्पीडात् । अश्रुपक्षे तु धीरोदात्तत्वात्सदसि तन्निर्गमनिरोधादिति भावः । कि करोती ति प्रश्ने रामो मां विना वने वसन्नेकाकी कीदृक् स्यादिति त्वां शोचतीत्युत्तरम् । तत्र प्रभुणा रुदितम् । निजदुःखमगणयित्वैव मामेव शोचतीत्यहो पातिव्रत्यमस्या राक्षसकरे संदिग्धमिति भावः । कुलकलङ्कशङ्कया धैर्यादप्यश्रुनिरोधो मा भूदिति तात्पर्यम् । शोचतीति लट्प्रत्ययेन सीतावर्तमानत्वमवधृत्य जीवतीति विहाय जीविष्यतीति प्रश्ने जीवतीत्युत्तरम् । तत्र वर्तमानसामीप्यार्थकलट्प्रत्ययमहिम्ना भवदागमनप्रत्याशया मदनुद्धारनिबन्धनः कलङ्कः प्रभोर्मा प्रसाङ्क्षीदिति किंचित्कालं प्राणान्धारयति । न तु चिरं जीविष्यतीत्यभिप्रायमस्य विदित्वा मारुतिरालिङ्गितः । कियत्कालमेव चेज्जीविष्यति तदा वार्ताज्ञानमेव दुःशकमासीदव तत्प्रत्युद्धारो हठादेव मया करिष्यत इत्युत्साहात् । अथवा यद्ययमसत्यमावेदयति तदा क्षोभतः सकम्पहृदयः स्यादिति जिज्ञासावशात् । यद्वा महत्कार्य मयमकार्षीत्तद्धनमस्त्येव न, परिरम्भणेनापि सक्रियतामित्याशयादिति भावः । उत्तरनामायमलंकारः । तथा च वामनः ( रुद्रट:)-'उत्तरवचनश्रवणादुन्नयनं प्रश्नवचनानाम् । उत्तरमिति तं प्राहुः प्रश्नादप्युत्तरं यत्र ॥' 'प्रश्न विनैव हनूमता दृष्टेत्यादि सीतावृत्तचतुष्टयमुदगारि । तत्र न अद्धितमित्यादि रामावस्थाचतुष्टयमुक्तं पूर्वोक्ततत्तदभिप्रायेण' इत्यपि केचिदाचक्षते । परे तु-'उत्तरालंकारमहिम्नैव दृष्टेत्युपनायकस्य सुग्रीवस्य प्रश्नः । तस्य तावन्मात्रप्रयोजनकत्वात् । कीदृशीत्यनुनायकस्य लक्ष्मणस्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org