SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [४३६ स प्रियाणां मन्दोदरीप्रभृतीनां जयशब्दं वलमानेन सीतां प्रति भजता हृदयेनावधीरितमवज्ञाविषयीकृतमाकर्णयति । सीतागतचित्ततया सम्यक्श्रवणाभावादरस्यापादकत्वाच्चानादर इत्याशयः । किंभूतम् । पूर्वनिपातानियमात् । दन्तव्रणेन दूनादधरात्परिस्खलितम् । ओष्ठ्यवर्णस्यासम्यगुच्चारणादपरिस्फुटमित्यर्थः । अत एव विषमं नानारूपतयोद्ग्राहितमुच्चारितं तत एव मधुरमास्वादनीयम् । तथा च तथाविधजयशब्दस्याप्यवहेलया चिन्तासङ्गोऽप्युक्तः ॥७॥ दिमला-वह ( रावण ) प्रियाजन के, दन्तक्षत से पीडित अधर से भस्फुट एवं नाना रूप में उच्चारित होने से मधुर जयशब्द को, सीता में हृदय नगा रहने के कारण अनादरपूर्वक सुनता ॥७॥ विषयान्तरेऽरतिमाह आमनाइ महइ सम्रणं मग्गइ रअणिबिरमं ज उच्छह दिनसम् । णोइ णिप्रत्तेइ पुणो रइलम्भोवाअमग्गणारहिअओ ॥ ८ ॥ [ आमुञ्चति महति शयनं मार्गति रजनीविरामं जुगुप्सते दिवसम् । निरैति निवर्तते पुना रतिलम्भोपायमार्गणातुरहृदयः॥] रतिः सीतासंबन्धिसुरतं तत्प्राप्त्युपायस्य मार्गणमन्वेषणं तेन । यद्वा रतिः कामपत्नी तत्प्राप्त्युपायो यस्य स कामस्तस्य मार्गणैर्बाणैरातुरहृदयो व्याकुलचित्तो रावणः शयनमामुञ्चति अध तिवशात्त्यजति पुनरुत्थानखेदवशान्महति वाञ्छति । शेते इत्यर्थः । एवं रजन्या मादकत्वात्तद्विरामं मार्गति आकाङ्क्षति । जाते च रजनी. विरामे दिवसं जुगुप्सते निन्दति । तदा आकारसंगोपनाभावात् । अतएव निरैति आकारसंगोपनाय लोकानामग्रतो बहिनिर्गच्छ ति, ततः कुत्र गच्छामि बलात्कारेणैव सीतामानयामीति । निवर्तते पूर्वस्थानमेवायाति । यद्वा संकल्पोपनीतसीतालिङ्गनाय शयनं मुञ्चतीति हर्षः । पश्चाभ्रमशान्तौ स्वप्नेऽपि सीतां पश्यामीति शयनं महति शेते इति विबोधः। अथ निद्रानुत्पत्त्या मादकत्वेन र जन्या विराममेवेच्छतीति दैन्यम् । पुनस्तथा सति लोकानामग्रतो बलात्कारोऽपि न स्यादिति दिवसं जूगुप्सते निन्दतीति ब्रीडा । तदिदानीमेव निशि बलात्तामानयामीति निरैति निर्गच्छतीत्यर्थः । पुनर्निवर्तते रम्भाशापस्मरणादिति धृतिः । तथा च नानाभावशवलत्वमुक्तम् । क्रियादीपकम् ॥८॥ विमला-( सीतासम्बन्धी ) सुरत की प्राप्ति का उपाय ढूंढने में रावण का हृदय इतना आतुर हो गया कि वह शय्या छोड़ उठ खड़ा होता, पुन: ( खेदवश ) लेट जाता, ( नींद न आने से ) रात्रि का अवसान चाहता, ( रात्रि का अवसान होने पर) दिन की निन्दा करता, उठ कर बाहर निकल जाता, पुनः लौट पड़ता॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy