________________
२८
सेतुबन्धम्
[प्रथम रामस्य क्षीणापि तनुः क्षीयत इत्युत्तरस्कन्धकेनान्वयः । सीताया विश्लेषाद्वार्तानुपलम्भाच्च । कस्यां सत्याम । इत्युक्तप्रकारेण शरदि जातायाम् । किरूपायाम् । लक्ष्म्याः स्वयंग्राहस्तस्य नवप्रदोषे रजनीमुख इति रूपकम् । शरत्पक्षे लक्ष्मी रिपु. राजश्रीस्तस्या स्वयंग्राहोऽतिक्रम्य ग्रहणम् । प्रदोषपक्षे लक्ष्मीर्नायिका तस्याः स्वयंग्राहो विवाहविशेषः। तस्य प्रदोषकर्तव्यत्वादित्यवसेयम् । शरदि किंभूतायाम् । प्रहसितं विकसितं कुमुदं यत्र तादृक्सरो यत्र तस्याम् । एवं भटी शूरवधूस्तन्मुखकमलस्य विरुद्धो मालिन्यहेतुश्चन्द्रस्यालोको ज्योत्स्ना दर्शनं वा यस्याम् । शरदि शूराणां रणयात्रया तद्वधूनां विरहोद्रेकादिति भावः । एवं स्फुरन्त्यस्तारा यस्यां तस्याम् । प्रदोषेऽपि कीदृशि । प्रहसितकुमुदसरसि भटीमुखतुल्यं यत्पङ्कजं तद्विरुद्धश्चन्द्रालोके स्फुरत्तारे चेति योज्यम् । केचित्तु-'शरदि कथंभूतायाम् । प्रहसितस्य कुमुदनाम्नो वानरस्य स्वरः शब्दविशेषो यत्र तथा प्रहसितकुमुदस्वरायाम् । एवं भटी राक्षसवधूस्तन्मुखपङ्कजविरुद्धश्चन्द्रस्य रामचन्द्रस्यालोको दर्शनं तेजो वा यत्र तथा तद्विरुद्धचन्द्रालोकायाम् । स्फुरन्ती तारा सुग्रीववधूर्यत्र । तारो वानरविशेषो वा । लक्ष्मीः सीता तत्स्वयं ग्राहस्य प्रदोषे' इति व्याचक्षते ।। ___ एवमास्थितो बाष्पो यत्रैवं सत्पुनः प्ररुदितमिव मुखम् । रोदनोन्मुखमित्यर्थः । अतिरोदनेन बाष्पशून्यतायामपि दैन्योद्रेकादिति भावः । धीरोदात्तत्वाद्वा । कस्मिन्सति । चिरगते हनूमत्यदृश्यमाने सति। कस्मिन्निव । आशाबन्ध इव । सीतां प्रति पुन : प्राप्तिप्रत्याशाबन्धोऽप्यदृश्यमान इत्यर्थः । तथा च यथा सीताप्राप्त्याशाबन्धो न दृश्यते तथा हनूमानपि न दृश्यत इति चिन्ताधिक्यादियमवस्थाभूदिति भावः । सहोपमा । यद्वा हनूमति कथंभूते । सीतां प्रत्याशाबन्ध इव । सीताप्राप्त्याशाबन्धस्य हनुमदागमनावधिकत्वादिति भावः । यद्वा परुण्णं व प्ररुदितं वा । पुनः प्रदितं चेत्यर्थः । वाशब्दः समुच्चये ॥३४-३५॥
विमला--शत्रु की राजश्रीरूप नायिका का स्वयं (बलात् ) ग्रहण कर उसके साथ स्वयंग्राह (विवाह-विशेष) करने के लिये (उपयुक्त एवं विहित) प्रदोष कालरूपा, विकसित कुमुदपूर्ण सरोवरों वाली, ( शूरों की रणयात्रा से ) शूर-वधुओं के मुख-कमलों को दुःखद चन्द्रज्योत्स्ना वाली तथा चमचमाते तारों वाली शरद् के इस प्रकार आ जाने पर चिरकाल से गये हुये हनुमान के, (सीताप्राप्ति के ) आशाबन्ध के समान लौटकर न दिखायी पड़ने पर ( सीता के वियोग से ) पहिले से ही राम का क्षीण शरीर ( समाचार भी न मिलने से ) और अधिक क्षीण हो गया तथा ( धीरोदात्त होते हुए भी) वे रुआंसे हो गये ॥ ३४-३५ ।। अथ हनूमदागमनमाह
णवरि अजहासमस्थिमणियसिअकज्जणिन्वलन्तच्छाअम् । पेच्छइ मारुतण भणोरहं चेअ विन्तिसुहोवणम् ॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org