________________
भाश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[ ३.९१
सलिलधरा मेघा यस्य च दरीषु पवनेनाहतास्ताडिता: सन्तः पुनरपि नभो लगन्ति । मिलन्तीत्यर्थः । किंभूता। प्रतिस्रोतसा विपरीतमार्गेण प्रस्थिताः । अत एव उन्मुखा ऊर्ध्वमुखाः । एवं मुहूर्त व्याप्य पीतः सलिलनिर्झरो यस्ते । यद्दरीजलपानाथं गता मेघास्तत्रत्यपवनोद्धतत्वादीष देव जलं निपीय येनैवागतास्तेनैव पथा गगनं गच्छन्तीति दरीवायोरूर्ध्वगतित्वेन विकटोदरत्वमुक्तम् ।।६४॥
विमला-इस सुवेल पर्वत की कन्दरा में ( जलपानार्थ गये हुये ) मेघ वहाँ के पवन से प्रताडित हो विखर कर थोड़ी देर ही सनिल निझर का पान कर ऊर्ध्वमुख, आकाश को जिस मार्ग से आये थे उसी मार्ग से, चले जाते हैं ॥१४॥ वापदनाहुत्यमाह
अद्दिगअपणोल्लिअपडन्ततडघाअमच्छिउठिपसोहे। सर्लरवविसंठल णिवडिअअण्णोण्णलग्गकिंणरमिहुणे ॥६॥ तुङ्गअडोन्सरमुहले जस्स अ कसणमणिगण्डसेलद्धन्ते । सेवन्तीण ग पत्तो तिअसबहूण सिढिलत्तणं अणुराओ॥६६॥
( जुग्गमम् ) इति सिरिपवरसेणविरइए कालिदासकए दसमुहवहे महाकव्वे
सुवेलवण्णणो णवमो आसासओ ॥ [ अदृष्टगजप्रणोदितपतत्तटघातमूच्छितोत्थितसिंहान् । शार्दूलरवविसंष्ठुलनिपतितान्योन्यलग्नकिनरमिथुनान् ॥ तुङ्गतटनिर्झरमुखरान्यस्य च कृष्णमणिगण्डशैलार्धान्तान् । सेवमानानां न प्राप्तस्त्रिदशवधूनां शिथिलत्वमनुरागः ॥]
(युग्मकम् ) इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखबधे ___ महाकाव्ये सुवेलवर्णनो नवम आश्वासः ॥
-
-
-
यस्य 'कृष्णमणिमयानां गण्डशैलानामर्धान्तान्सेवमानानामाश्रितानां त्रिदशवधूनामनुरागो मनोभिनिवेश: शिथिलत्वं न प्राप्तः' इत्यनिमस्कन्धके योजना । कीदृशान् । अदृष्टेनाज्ञातेन' गजेन प्रणोदिताः सिंहनाशाय प्रेरिताः । अत एव पतन्तस्तटाः पर्वतैकदेशास्तदभिघातेन प्रथमं मूच्छिता अथोत्थिताः सिंहा येषु तान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org