________________
३८६]
सेतुबन्धम्
[ नवम
गजपशे-दानस्य, आबद्धाः संबद्धा मधुकरा यस्ते । ऋतुपक्षे-गन्धानद्धमधूनां कर्तार इत्यप्यर्थः । एवं सुरवनेन नन्दनादिनानुगतास्तत्सहितास्तान्यपि वसन्तीत्यर्थः । यद्वा सुरजनानुगताः। सुरगणानुगता वा । सुरवनानुगता वा। सुरवनं शोभननाट्यादि । सुरचनानुगता वा । रचना संस्थानविशेषः । सर्वत्र तृतीया समास इति ऋतुपक्षे । गजपक्षेऽपि सर्वमिदं समानमेव । सुरवनमनुगता आश्रिता इति विशेषः । सुरलानुगता इत्यधिकम् । सुरलेन मुक्ताफलेनानुगता इत्यर्थः। वयं तु-एकस्तम्भे सुबेल एव निगलिताः सुरगजा इव यत्र ऋतवो वसन्तीति सहोपमा। तथा च यथा दिग्गजा इह वसन्ति तथा ऋतवोऽपीत्यर्थः । तेन नानादिग्वतिसकल दिग्ग. जाधिकरणत्वेन महत्त्वम्' इति ब्रूमः ॥८॥
विमला-इस सुवेल पर्वत पर एक ही खम्भे में बँधे सुरगजों के समान परस्पर विरुद्ध ऋतुयें भी एक ही साथ बर्तमान रहती हैं, जिनके (१-पुष्प के, २-मद के ) सौरभ से मधुकर आबद्ध हैं तथा जो सुरवनों के आश्रित हैं ॥८॥ शिखरोच्चतामाह
दोसइ वि वलाअन्तो जत्थ समासण्णवहमुहभप्राविग्गो। सिहरन्तरालपटिलग्गमोइमाणिक्कमण्डलो दिवसअरो॥८६॥ [ दृश्यतेऽपि पलायमानो यत्र समासन्नदशमुखभयाविग्नः ।
शिखरान्तरालप्रतिलग्नमोचिततिर्यमण्डलो दिवसकरः ।।]
यत्र दिवसकरोऽपि पलायमानो दृश्यते । कुत इत्यत माह-समासन्नो निकटवर्ती दशमुखस्तद्भयादाविग्न उद्विग्नः । एवम्-शिखरयोरन्तराले मध्ये प्रतिलग्नं सन्मोचितं संमुखीकृतं तिर्यग्भूतं मण्डलं येन । अन्योऽपि पलायमानः कण्टकादिलग्नं वस्त्रादि यथातथा मोचयित्वा गच्छतीति ध्वनिः । आणिक्क तिर्यगर्थे देशी ॥८६॥
बिमला-इस सुवेल पर्वत पर निकटवर्ती रावण के भय से उद्विग्न हो सूर्य, दो शिखरों के बीच में उलझ कर टेढे हुये अपने मण्डल को ( किसी तरह ) छुड़ा कर भागता हुआ दिखाई देता है।॥८६॥ किंनराणां गानमाह
जत्थ प्रमिआण मणहरकिणरगीप्रसुहिनोणिभिल्लच्छाणम् । विसमिअरोमन्थाणं एइ विउद्धं चिरेण रोमं स्थाणम् ॥८७॥ [ यत्र च मृगाणां मनोहरकिंनरगीतसुखितावमीलदक्षाणाम् ।
विश्रमितरोमन्थानामेति विबुद्ध चिरेण रोम स्थानम् ॥] यत्र च मनोहरेण किंनराणां गीतेन गानेन झुखितानाम्, सुहितानां तृप्तानां वा, अत एव सुखवशादवमीलती मुकुलायमाने अक्षिणी येषां तथाभूतानां सतां विबुद्धं भाववशादुत्फुल्लं रोम कर्तृ चिरेण स्थानं एति पूर्वावस्थां प्राप्नोति सुख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org