________________
३४८ ]
सेतुबन्धम्
[नवम
[ १रजनिकासु दूरोद्गतशिखररत्नैस्ततं
सुखनिषण्णमृगखण्डितशिखरतृणान्तम् । कुपितरामभिन्नोदधिदृढशरनोदितं
शिखरलग्नशशिमण्डलनिःसरणार्द्रितम् ॥] कीदृशम् । रजनीषु दूरादुद्गतः प्रकाशितैः शिखराणां रत्नस्ततं व्याप्तम् । उद्गतमिति शिखरविशेषणं वा । यद्वा-दूरोद्गत शिखररत्नान्तं दूरोद्गता शिखा तेजोधारा येषां तथाभूतानि रत्नानि अन्ते स्वरूप प्रान्ते वा यस्य तम् । ते रत्नरन्तं मनोहरमिति वा । यदा दूरोद्गत शिखरानन्तकं दूरमुद्गतैरुत्थितः शिखरैरनन्तमपर्यवसानं कं मस्तकं यस्य । अत्युच्चत्वात् । अथवा दरोगतशिखराण्येवानन्तानि बहुसंख्यानि कानि मस्तकानि यस्य । शिखराणामेव मस्तकरूपत्वादित्यर्थः । अतः परं रजनीष्विति चरमपदान्वितमेव । तथा सति व्याख्या-दूरोद्गतशिखरगणान्तदं दूरोद्गतशिखरगणस्यान्तमवसानं द्यति खण्डयति । अनवसानशिखरगणमित्यर्थः । शिखरगणे अन्तं मनोहरं कं जलं यस्येति वा । यद्वा दूरोद्गतशिखरचणान्तकम् । चणप्प्रत्ययेन दूरोद्गतशिखरख्यातोऽन्तः स्वरूपं यस्य । स्वार्थे कन् । यद्वा शिखर. जनान्तगम् । शिखरैर्जनस्य लोकस्यान्तगं पर्यन्तगामिनम् । यद्वा दूरोद्गतशिखरचनान्तगम् । दूरोद्गता शिखा शिरो यत्र तादृशी या रचना सृष्टिस्तस्या अन्तर्ग पारगामिनम् । तया अन्तकं मनोहरमिति वा । प्रशंसायां कन् । एवं सुखनिषण्णमृगैः खण्डितश्चवितः शिखर तृणानामन्तोऽयं यत्र तम्। अथवा मृगैः खण्डितानि शिखराण्यग्राणि यस्य ( येषां ) तथाभूतानि तृणान्यन्ते प्रान्ते यस्येत्यर्थः । यद्वा मृगखण्डितशिखरतृणं ततं विस्तीर्णमित्यर्थः । यद्वा सुखनिषण्ण मृगखण्डयसिधरजनान्तकम् । सुखनिषण्ण मृगखण्डिनोऽसिधराः खड्गपाणयो जना एव अन्तको यमो यत्र मृगयायां मृगनाशकत्वादित्यर्थः । एवं कुपितरामस्य भिन्नोदधिस्ताडितसमुद्रो दृढो यः शरस्तेन नोदितं प्रेरितम् । रामशर: समुद्रं भित्त्वा तत्र लग्न इत्यर्थः । तथा च तादृशशराभेद्यत्वेन सारवत्त्वं सूचतम् । यद्वा कुपितरामेण भिन्नो य उदधिः स एव दृढशरस्तेन नोदितम् । शराभिघातोद्वत्तसमद्रेणाक्रान्तत्वात । एवं शिखरे लग्नस्य शशिमण्डलस्य नि सरणेन' शिखरवेधत : सुधाक्ष रणेनार्दीकृतम् । सजलमित्यर्थः । यद्वा शिखरे लग्नानां शशि मण्डलानां चन्द्रकान्त चक्रवालानां निःसरणेन जलनि:स्यन्देनार्दीकृतम् । 'रजनीषु' इत्यनुवत्तनिशि चन्द्रकान्ता जलं स्रवन्तीति भावः । 'अन्त : प्रान्तेऽन्ति के नाशे स्वरूपेऽपि मनोहरे' इति विश्वः ॥ उपग (?)नितकम् ॥१८॥ १. 'रजनीषु' ख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org