________________
आश्वासः ]
रामसेतुप्रदीप - विमलासमन्वितम्
[ ३३५
वारं गता इति गमने सत्वरता, उत्साहश्च सूचितः । एवं पर्वतोत्तोलन लग्नैर्धातुभिमेलिनानि करतलानि सेतोः पार्श्वस्थितमहीधराणां निर्झरेषु धावयन्तः क्षालयन्त इति वर्तमानशत्रा क्षालनस्य पूर्वकालत्वमपि नापेक्षितवन्त इति क्षिप्रकारित्वमुक्तम् । 'शीकरे शीतले चूर्णे तुषारो निर्झरे हिमे' इति विश्वः ।। १०२ ।। विमला - शैलसमूह के उद्वहन से जनित स्वेद-शीकरों से युक्त वानर ! पर्वतों को उठाते समय ) धातुओं के लगने से मलिन करतलों को सेतु के दोनों पार्श्वभागों में स्थित पर्वतों के निर्झरों में धोते हुये समुद्र को पार कर गये ॥ १०२ ॥
अथ सुवेलप्राप्तिमाह
पत्ता अदहमुहाणि अणन्दणवगपा अवोइ प्रवणु देसम् । जलभरणि सण्णजलहरभरमोडिअवणलअं सुवेलुच्छङ्गम् ॥१०३॥ [ प्राप्ताश्च दशमुखानीतनन्दनवन पादपोचितवनोद्देशम् । जलभरनिषण्णजलधरभर मोटितवनलतं सुवेलोत्सङ्गम् ॥ ]
न केवलं सागरमुत्तीर्णाः, अपि तु सुवेलस्योत्सङ्गं प्राताश्च । कीदृशम् । दशमुखेनानीतानां नन्दनवनपादपानां पारिजातादीनामुचितो योग्यो वनोद्देशस्तत्प्रदेशो यत्र । रावणेन पारिजातादीनामत्रैवानीय रोपितत्वादित्यर्थः । एवं जलस्य भरेणाधिक्येन निषण्णानां संचारक्षमतयोपविष्टानां जलधराणां भरेण गौरवेण मोटिता तेन वनलता यत्र तम् । जलं निपीय जलधरा यत्र सुखेनोपविशन्तीति निर्जनत्वम्, च पर प्रवेशाभाव:, तेन च रावणैश्वर्यम् । तथापि तत्प्राप्त्या कपीनामभयत्व - मुक्तम् ॥१०३॥
विमला- -वानर केवल समुद्र को ही नहीं पार कर गये, अपितु सुवेल के क्रोड तक पहुँच गये, जहाँ रावण ने नन्दन वन के पादपों ( पारिजातादि ) को लाकर लगवाया था तथा जहाँ जलाधिक्य से ( डोलने में असमर्थ होने के कारण ) उपविष्ट मेघों के भार से वनलतायें कुचल उठी थीं ।। १०३ ||
अथ रावणे राक्षसानामनादरमाह
सोऊण समुत्तिणं उअहिमविवि अविक्कम कइसेण्णम् ।
जाओ रक्खसलोओ रखखसणाहस्स पेलवाणत्तिअरो ॥ १०४॥
[ श्रुत्वा समुत्तीर्ण मुदधिमविद्रावितविक्रमं कपिसैन्यम् ।
जातो राक्षसलोको राक्षसनाथस्य पेलवाज्ञप्तिकरः ॥ ]
उदधि समुत्तीर्णं कपिसैन्यं अविद्रावितः प्रत्यूहाभावेन रावणेनाप्यखण्डितो विक्रमः सुवेलातिक्रमरूपो यस्य तथाभूतं श्रुत्वा राक्षसलोको राक्षसनाथस्य रावणस्य पेलवा कोमलत्वेन भगुरा या आज्ञप्तिराज्ञा तत्करो जात इति योजना । रावणस्याज्ञा पूर्वमभङ्गुरासीत्, तदानीं कपीनां समुद्रसुवेलातिक्रमाभ्यां भगुराभूदिति प्रतापभङ्ग उक्तः ॥ १०४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org