________________
सेतुबन्धम्
वीचिप्रतिकुलाहतस्तोकोद्वेल्लितद्रुमावलम्बमानलतम् । विषमशिखरान्तरागत संवेल्लितसागरं घटयति नलपथम् ॥ ]
३१८ ]
Jain Education International
[ अष्टम
इत्यनेन प्रकारेण 'वानरा नलपथं संघटयन्ति' इति पञ्चमस्कन्धकेन संबन्धः । - नलानुगामित्वेन परेषामपि कर्तृत्वाद्बहुवचनम् । कीदृशम् । सकलमहीतलादुत्खातेराणां संघातनिर्मितो महानारम्भ उच्छ्रायो यस्य तम् । एवं निजकच्छायायाः स्वीयप्रतिबिम्बस्य व्यतिकरेण संबन्धेन श्यामलितः सागरोदरजलस्यार्धान्तो येन तमिति सेतोरुच्छ्रायो दैघ्यं सूचितम् । स्वाभाविकी सिन्धुजलश्यामता सेतुच्छाया'त्वेनोत्प्रेक्षतेति कश्चित् । पुनः किंभूतम् । विषमं समीभूय न लग्नम्, अतोऽपसृतं स्खलितं यच्छिलातलं तदुढघातेनोत्कृत्त छिन्नो मत्स्यस्य । तलवर्तिन इत्यर्थात् । पश्चिमभागः पुच्छप्रदेशो यत्र तम् । एवं तेनैव मध्यच्छिन्नं यद्भुजंगमवेष्टं सर्पभोगस्तस्योत्पीडनेन गाढीकृतवेष्टनेन विदारितं द्विधाकृतं शिलावेष्टं यस्य तम् । भोगेनाभिघात जनक मावेष्टयतीति सर्पस्वभावः । तथा च ययैव शिलया मध्ये छिन्नः सैवावेष्ट्य विदारितेति द्वयोरपि महत्त्वमुक्तम् । मध्यच्छिन्नभुजंगमस्य यद्वेष्टमावेष्टनं तस्योत्पीडनेन यन्त्रणेनेत्यर्थ इति कश्चित् । "एवं कपिभिः कृतं यच्छैलोन्मूलनं तत्संभ्रमाद्गृहीतभ्रष्टस्य संभ्रमपूर्वं गृहीतस्य धृतस्य तस्मिन्सति भ्रष्टस्य तदन्यमनस्कत्वेन पलायितस्य गजस्य मार्गेण पृष्ठेन धावितः सिंहो यत्र तम् । उत्पाटनसमये भ्रष्टस्य गजस्य सेतावप्यनुसंधानेन वानराणामानयने शैघ्र पर्वतस्य दैर्घ्यं वा सूचितम् । येन चिरकालेनापि न विश्राम इति भावः । एवं गिरिशिखरनिषण्णस्य तथैवानीतस्य । सेतावित्यर्थात् । गिरिणा सेतु लग्नपर्वतान्तरेण प्रेरितस्य यन्त्रितस्य अत एव पीडया मुखरस्य शब्दायमानस्य जलधरस्य निर्यत् क्षरत्सलिलं यत्र तम् । पूर्वनिपातानियमात् । मेघानां कोमलत्वेन जलक्षरणम्, धूमरूपत्वेऽपि बहिर्गमनाभावात् गिरीणां संनिवेशस्या तिनिfasत्वं सूचितम् । यद्वा गिरिप्रेरितत्वेन निर्यतो बहिर्गच्छतो मुखरजलधरस्य सलिलं यत्र । तथा च धूमरूपतया मेघा गच्छन्ति छिद्रगलितानि जलानि गुरुत्वात्तत्रैव पतन्तीत्याशयः । वस्तुतस्तु गिरिशिखरनिषण्णस्यानी तेनानेतुमारब्धेन गिरिणा प्रेरितस्य उत्क्षेपणादिप्रसङ्गेन शिखरेणैव विद्धस्य मुखरजलदस्य निर्यत्सलिलं यत्रेत्यनेनाप्युत्पाटनसमयोपजातजलगलनस्य सेतावप्यनुवर्तमानत्वेन कपीनामानयनशै बाहुल्येन मेघ महत्त्वात्पर्वतमहत्त्वं चेत्यहमुन्नयामि । एवम् उत्पाटनक्षीभात्पार्श्व पार्श्वयमानेन वा पतितेन वनगजेन रुद्धस्य महानिर्झरस्य द्विधा द्विप्रकारेण प्रधावितं सलिलं यत्र तम् । महानिर्झरस्याप्यव रोधकत्वेन गजस्य महत्त्वमुक्तम् ।
For Private & Personal Use Only
( कुलकम् )
www.jainelibrary.org