________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
[३१५
[ करिमकराणां क्षुभितसागरविषाश्रितानां सेतुपथे पतितगिरिनिवहविशासितानाम् । समकं वनगजानां निवहा धरोषितानां
संमुखमापतन्ति मदगन्धरोषितानाम् ॥] करिमकराणां वनगजानां च निवहाः सममेकदैव सम्मुखमापतन्ति । युद्धाय परस्परमभिमुखीभवन्तीत्यर्थः । करिमकराणां किंभूतानाम् । क्षुभितं यत्सागरस्य विषं जलं तदाश्रितानाम् । तदानीं क्षुभितानां सागरजलमाश्रितानामिति वा कर्मधारयः । यद्वा विषासितानां जले आसितानाम् । उपविष्टानामित्यर्थः । यद्वा विषवद्गरलवदासितानामुपविष्टानाम् । विषवदसितानां श्यामानामिति वा । यद्वा विषाशितानां विषं जलमाशितानाम् । भोनितानामित्यर्थः । यद्वा विषासिकानां सागरजले आसिकोपवेशनं येषामित्यर्थः । एवं सेतुपथे पतितगिरिनिवहेन विशेषतः शासितानाम् । मारितानामित्यर्थः । 'शसु हिंसायाम्' इति धातोणिचि । यद्वा गिरिनि-- वहेन विश्लेषितानां दिशि दिशि गतानाम् । यद्वा गिरिनिवहेन विशासितानाम् , गिरिषु सजातीयगजभ्रमेणोपगमात् । एवं वनगजानां किंभूतानाम् । धरेषु पर्वतेषू. षितानाम्, वनचरत्वात् । वस्तुतस्तु करिमकराणां वनगजानामित्युभयोरपि सर्व विशेषणम् । तथाहि प्रथमे-धरेषषितानाम् । वनगजैः सह योद्धु समुद्रादपि पर्वतमारूढानामिति शौर्यप्रकर्षः । यद्वा धरेषु मैनाकादिषूषितानां स्वभावादेवेत्यर्थः। द्वितीये-सागविषमाश्रितानां करिमकरैः सह योद्धं पर्वतादपि समुद्रजलं प्रविष्टानामित्यस्यापि शौर्य प्रकर्षः । एवं सेतुपथे पतितगिरिनिवहेन विशेषतः शासितानां घर्षितानाम्, तेन व्याकुलीक्रियमाणत्वात् । एवं मिथो मदगन्धेन रोषितानामित्युभयपक्षेऽपि सर्व तुल्यमिति मदुन्नीतः । पन्थाः 'विषं पुरीषे गरले पानीये च प्रकीर्तितम् ॥ ६३ ॥
विमला-क्षुभित सागर के [ विष ] जल में स्थित एवं सेतुपथ पर पतित पर्वतों से धर्षित जलगजों का समूह तथा पर्वतबासी वनगजों का समूह एकदूसरे के मदगन्ध से रोष को प्राप्त होकर युद्ध के लिये एक साथ एक-दूसरे के. सम्मुख आ गये ।।३।। अथ सेतो तरङ्गपत न माह
उत्थ द्धिप्रदुमणिवहा सुइरं परिमलिअसेउवहपासल्ला। धाउकलङ्कवखतरा दूरं गन्तण उद्वमन्ति तरङ्गा ॥५४।। [ उत्थापितद्रुमनिवहाः सुचिरं परमृदितसेतुपथपााः । धातुकलङ्ककलुषा दूरं गत्वा उद्वमन्ति तरङ्गाः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org