________________
सेतुबन्धम्
२६६ ]
[ उत विरचयामि नभस्तले त्वरितप्रधावितप्लवंगसंचरण सहम् । अनुपरिपाटी परिस्थितघनकूट घट मानमहीधरं
सेतुपथम् ॥ ] उत पक्षान्तरे । समुद्रजलास्पृष्टे नभस्तल एव सेतुपथं विरचयामि । तेनैव पारं गच्छतेति भावः । कीदृशम् । अनुपरिपाट्यानुक्रमेण यथायोग्यसंनिवेशेन परिस्थिता घनकूटेषु मेघसमूहेषु घटमानाः सरसत्वात्कर्दमेष्विव परस्परं संबध्यमाना महीधरा यत्र तम् । 'घडेन्त' इति पाठेऽनुक्रमपरिस्थितेन घनकूटेन घट्यमाना महीधरा यत्र तम् । अत एव त्वरितं प्रधावितं वेगो यत्र तादृशं यत्प्लवंगानां संचरणं तत्सहं तद्योग्यम् । निरवलम्बेऽपि सेतुनिर्माणचातुरी ममेत्यभिप्रायः । त्वरित प्रधावितानां प्लवंगमानां संचारसहमित्यर्थं इति केचित् । ' सहः शक्ते क्षमायुक्ते तुल्यार्थे च सहाव्ययम्' || २४ ॥
विमला -- अथवा मैं पर्वतों को अनुक्रम से स्थापित करता हुआ, मेघसमूहों में सम्बद्ध कर गगनतल में ही सेतुपथ बनाये देता हूँ, जो तेज दौड़ने वाले वानरों के संचार को सहने में समर्थ होगा ||२४||
[ अष्टम
पक्षान्तरमाह
ओ साअरोम रब्भन्तराणि ओवरिपरि ट्ठवि अणिप्फन्दा । जलहरलम्बिअवक्खा घडेन्तु लङ्कावहं रसाअलसेला ।। २५ । सागरोदराभ्यन्तरानीतोपरिस्थापितनिःस्पन्दाः ।
[ उत
जलधरलम्बितपक्षा घटयन्तु लङ्कापथं रसातलशैलाः ॥ ]
उत पक्षान्तरे । रसातलस्य शैलाः सपक्षा मैनाकानयो लङ्कापथं सेतु घटयन्तु । कीदृशाः । सागरस्योदराभ्यन्तरादानीता अथ उपरि जलस्येत्यर्थात् परिस्थापिता: सन्तो निःस्पन्दा निश्चलाः । निश्चलत्वे हेतुमाह – जलभरेण लम्बितावधोवर्तिनी पक्षी येषाम् । जलार्द्रपक्षत्वादुडुयनासमर्था इति भावः । यद्वा उपरीत्यस्य नभसीत्यर्थः । तथा च जलभरेण लम्बिताववलम्बिती पक्षी येषां ते । नभोनिर्भरमेघसंदानितपक्षत्वेन पतनाभाव उक्तः । तेन पाताल शैलानप्याक्रष्टुं क्षमोऽस्मीति सूचितम् ॥ २५ ॥
विमला- -अथवा रसातल के शैलों ( सपक्ष मैनाकादि ) को सागर के भीतर से लाकर ( जल के ) ऊपर, स्थापित कर दूँ और जलार्द्रपक्ष होने से उड़ने में असमर्थ, अतएव निश्चल होकर वे ( रसातल - शैल ) ही सेतु- सम्पादन कर दें ||२५||
Jain Education International
अहंकारवचनेनोपसंहरति
तं मह मग्गालग्गा विरएह जहाणिप्रोग्रमुक्कमहिहरा । अणुवादिट्ठदोसं अइराहोन्तसुहबन्धणं सेउवहम् ||२६||
For Private & Personal Use Only
www.jainelibrary.org