SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ '१४] सेतुबन्धम् [प्रथम अत्र प्रकृतग्रन्थकथां प्रस्तौति अह पडिवण्णविरोहे राहववम्महसरेग माणहिए। विद्धाइ वालिहिपए रासिरी अहिसारिए सुग्गोवे ।।१३।। ववसाअरइपमोसो रोसगइन्दविढसिङ्खलापडिबन्धो। कहं कह वि दासरहिणो जमकेसरिपञ्जरो गोधणसमग्रो ॥१४॥ (जुग्गमम् ) [अथ प्रतिपन्नविरोधे राघवमन्मथशरेण मानाभ्यधिके । विद्धया वालिहृदये राजश्रियाभिसारिते सुग्रीवे ।। व्यवसायरविप्रदोषो रोषराजेन्द्रदृढशृङ्खलाप्रतिबन्धः । कथंकथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः ॥] (युग्मकम् । अथ वर्ष प्रभूतसीता विरहदुःखानुभवानन्तरं कथंकथमपि सीतानुद्धारजन्ये सीतायाः स्वस्य च दुःखे सत्येव प्राणत्याग इत्यपौरुषमकीर्तिकरं चेति दुःसहविरहकष्टेऽपि प्राणधारणपूर्व दाशरथे रामस्य गतो घनसमयो वर्षा इत्युत्तरस्कन्धकेन समन्वयः। अथशब्दस्य ग्रन्थारम्भे मङ्गलत्वं वा। तदुक्तम् 'ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ।" कस्मिन्सति । राजश्रिया वालिलक्ष्म्या सुग्रीवेऽभिसारिते स्वपदमानीते सति । कथंभूतया । राघवो रामः स एव मन्मथस्तदीयशरेण वालिरूपे हृदये विद्धया जातप्रहारया। किंभूते वालिहृदये । प्रतिपन्नः प्राप्तो विरोधो यत्र तथाभूते । एवं मानेन चित्तसमुन्नत्याभ्यधिके । अयं भाव:-राजश्रियो नायिकाया नायकः सुग्रीवः । हृदयं वाली । परमप्रियत्वात् । तत्र राज्यादिनिमित्तं विरोधोत्पत्तावहङ्काराधिके वालिनि रामेण हते सुग्रीवेण राजलक्ष्मीलब्धा । तथा सतीत्यर्थः । एवं रागस्यानुरागस्य श्रीयंत्र सा रागश्रीर्नायिका तया प्रतिपन्नः प्राप्तो विरोधो नायकापराधजन्मा यत्र तादृशि । वलनं वक्रीभवनं वालस्तद्वति वालिनि हृदये मानाभ्यधिके महत्तरे च । राधं वैशाखं वसन्तं पातीति राधपो वसन्तसहचरो यो मन्मथस्तस्य शरेण विद्धया सत्या सुग्रीवः सुकण्टो नायकोऽभिसार्यते स्वपदमानीयत इति ध्वनिः । धनसमयः कीदृशः । व्यवसायः सीताप्रत्युद्धारहेतुापारः स एव रविः। असम्पद्यमानत्वेन संतापकत्वात् । तस्य प्रदोषस्तिरोधानकालः । एवं रोष एव गजेन्द्रः । परोपमर्दकत्वात् । तस्य दृढशृङ्खलया प्रतिबन्धो बन्धनं तद्रूपः । प्रसरणप्रतिबन्धकत्वात् । तथा जय एव केसरो । प्रतिपक्षशून्यत्वात् । तस्य पञ्जरो बन्धनस्थानम् । अवरोधकत्वादित्यर्थः । रूपकमत्रालङ्कारः । तथा च दण्डी-'उपमैव तिरोभूतभेदा रूपक मिष्यते' इति ।। युग्मकम् ॥१३-१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy