________________
रामसेतुप्रदीप - विमलासमन्वितम्
आश्वासः ]
नृत्ये सत्त्वोद्रेकमाह
पट्टारम्भक्खु हिश्रा जस्स भडब्बन्तमच्छपहप्रजलरआ । होन्ति सलिलुद्ध माइग्रधूमा अन्तवडवामुहा मनरहरा ||८|| ( श्राकुलम् ) [नृत्यारम्भक्षुभिता यस्य भयोद्भ्रान्तमत्स्यप्रहृतजलरयाः । भवन्ति सलिलोद्मापितधूमायमानवडवामुखा मकरगृहाः ॥ ] ( आदिकुलकम् ) मकरगृहाः सप्तापि समुद्रा यस्य नृत्यारम्भ एव क्षुभिताः सन्त ईदृशा भवन्ति । कीदृशाः । भयेनोद्भ्रान्ता मूच्छिता इतस्ततश्चारिणो वा ये मत्स्यास्तैः प्रहतः प्रतिरुद्धो जलस्य रयो वेगो येषु ते । तथा मत्स्वानां महत्त्वेन सति संचारे समुद्रसेतुभावादिति भावः । पुनः कीदृशाः । सलिलेनोद्धमापितमुमापयितुं निर्वाणीकर्तुं मारब्धमत एव धमायमानं धूममुद्वमद्वडवामुखं वडवानलो येषु ते । चरणक्षेपेण धरणिक्षोभे जलधिजलक्षोभादार्द्रेन्धन संबन्धादनलस्य धूमायमानत्वम् । उद्धमपि इत्यादिकर्मणि क्तः । उच्छब्दोऽत्राभाववाची । तेनाग्निदीपनाभावो लभ्यते । उत्कृतिरुद्वास इत्यादौ दृष्टत्वात् । इत्यपि चतुभिरादिकुलकम् ||८||
विमला - जिस (शिव) का नृत्य आरम्भ होते ही सातो समुद्र ऐसे क्षुब्ध हो जाते हैं कि घबड़ाकर मछलियों के इधर-उधर चलने से उनमें जल का वेग प्रतिरुद्ध हो जाता है और वडवानल जलक्षोभ से बुझने लगता है, अतएव धुआँ देने लगता है ।
उक्त चार स्कन्धों की भी ' आदिकुलक' संज्ञा है ||८|| अथ स्वानवधानपरिजिहीर्षया काव्यस्य दुष्करत्वमाहश्रहिणवराश्राद्धा चक्क क्ख लिएसु विहडिग्रपरिट्ठविप्रा । मेत्ति व्व पमुहरसिश्रा णिव्वोढ होइ दुक्करं कव्वका ॥६॥
[ अभिनबराजारब्धा च्युतस्खलितेषु विघटितपरिस्थापिता । मैत्रीव प्रमुखरसिका निर्वोदु भवति दुष्करं काव्यकथा ॥ ]
Jain Education International
|৭৭
काव्यकथा निर्वोढुमाद्यन्तं यावत्तुल्यतया निष्पादयितुं दुष्करं यथा स्यादेव भवति । दुःख निर्वाह्य ेत्यर्थः । केव । मैत्रीव । साप्याद्योपान्तं यावत्समतया निर्वाहयितुं दुष्करं भवति । काव्यकथा कीदृशी । अभिनवेन राज्ञा प्रवरसेनेनारब्धा । कालिदासद्वारा तस्यैव कृतिरियमित्याशयः । प्रवरसेनो भोजदेव इति केचित् । पुनः कीदृशी । च्युतोऽनवहितः कविस्तस्य स्खलितेषु च्छन्दोभङ्गादिनानवधानेषु विषटिता सती परिस्थापिता परिष्कारं प्रापिता । एवं प्रमुखो रसिको यत्र तादृशी । मैत्र्यप्यभिनवेन रागेणानुबन्धेनारब्धा । एवं च्युतोऽनवहितो यो जनस्तस्य स्खलि
For Private & Personal Use Only
www.jainelibrary.org