________________
आश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ २३३
अथ पर्वतोत्पाटनानन्तरं प्लवंगा अवपतनादपि लघुकं क्षिप्रं यथा स्याद्विसृष्टः पर्वताहरणजन्योत्साहेन सकलसंज्ञानिमित्तं वा कलकलः शब्दविशेषो यत्र तच्च यथा स्यादेवं वेगेन नभो लक्ष्मीकृत्योत्पतिता उत्फालं कृतवन्तः । किं कृत्वा । सकलं महीधराणां निवमाकृष्य । हस्ते कृत्वेत्यर्थः । तथा चागमनसमये आकाशादधः पतने यल्लाघवं तदपेक्षयाप्युत्पतने ऊर्ध्वगमनव्यलीकपर्वतभारवत्त्वेऽपि महल्लाघवमासीदिति कपीनामुत्साहाधिक्यं बलवत्त्वं च सूचितम् । वस्तुतस्तु वेगेनाकृष्येत्यन्वयः । वयं तु — वेगेनावपतनादपि लघुकमिति संबन्धः कर्तव्य स्तेन वेगपदमनर्थकं नापतति । उत्पतने च लाघवोत्कर्षो व्यङ्गयो भवति । एवं नभः किभूतम् । विसृष्टः समाप्तः कलकलो यत्र तत् । तथा च भूमावारब्धस्य कलकलस्य नभसि त्यागेनोत्पतनस्यातिलघुत्वमवगम्यते तदव्याप्यत्वादित्यर्थं इति ब्रूमः ॥७७॥
विमला - वानरों ने समस्त गिरिसमूह को हाथ पर रखकर, आकाश से नीचे उतरते समय शीघ्रता की अपेक्षा अत्यन्त अधिक शीघ्रता से, आकाश की ओर इतने वेग से छलाँग मारी कि भूमि पर आरम्भ किये गये कलकल निनाद की समाप्ति आकाश में ही हुई || ७७ ||
अथ कपीनां गगनारोहणमाह
चडुलेहि निष्पअम्पा उप्पइमव्वलहुएहि वित्थअगरुला ।
एक्कक्खेवेण णहं पक्खेहि व महिहरा कईहि विला ||७८ || [ चटुलैनिष्प्रकम्पा उत्पतितव्यलघुकै विस्तृत गुरुकाः ।
एकक्षेपेण नभः पक्षैरिव महीधराः कपिभिविलगिताः ॥ ]
महीधराः पक्षैरिव कपिभिः करणभूतैरेक क्षेपेणैकप्रयत्नेन । समकाल मित्यर्थः । नमो विलगिता: प्राप्तवन्तः । शैलाः स्वभावतः पक्षिण एव । तदानीं पक्षविरहात्कपय एव पक्षत्वेनोत्प्रेक्षिताः । अन्येऽपि पक्षिणः संभूय सहसैवोड्डयन्त इति ध्वनिमुखेन सपर्वताः कपयः सहसैव गगनं गता इत्यर्थेन सर्वेषां समानपराक्रमत्वमुक्तम् । पक्ष तौल्यमाह - कपिभिः किभूतैः । चटुलैर्नभसि चञ्चलैः एवमुत्पतितव्ये उत्पतने लघुकैः क्षिप्रैः । उड्डयनकाले पक्षोऽप्येवमेव भवतीति भावः । महीधराः कीदृशाः । निष्प्रकम्पाः । स्थिरा इत्यर्थः । एवं विस्तृताः सन्तो गुरुका गौरवयुक्ताः । पक्षिणोऽप्येवमेव भवन्ति । न च प्रत्येकपर्वतस्य प्रत्येकवानरहरणीयत्वेन द्वितीयपक्षाभाव इति वाच्यम् । मिथो विमिश्रत्वेन पर्वतान्तरलग्नकपिना परपार्श्व पक्ष सत्त्वप्रतीतेः । एवं कपीनां पक्षत्वोत्प्रेक्षया तदपेक्षया गिरीणामतिमहत्त्वं तदाहरणेन च तेषां बलवत्त्वमुक्तम् । कपिभिः कर्तृ भूतैः पर्वता नभो नीता उत्पतनकारणत्वात्पक्षेरिवेत्युक्तमिति केचित् ॥७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org