________________
सेतुबन्धम्
२२८ ]
कपीनां कार्यपरतामाह—
जस्स सिहरं विवज्जइ पडिअं फुडिओ अ जो धरिज्जइ सेलो । सोचेन विसज्जिज्जइ उवखन्तूण वि अपूरमाणम्मि भरे ॥ ६७॥ [ यस्म शिखरं विपद्यते पतितं स्फुटितश्च यो ध्रियते शैलः । स एव विसृज्यते उत्खायाप्यपूर्यमाणे भरे ॥ ]
यस्य शिखरं पतितं सद्विपद्यते स्फुटति मदृढमित्यर्थः । स्फुटिता स्वभावात्स्कुटित एव । यश्व ध्रियते । यद्वा स्फुटितः सन् यश्च धियते । ध्रियमाण एव स्फुटतीत्यर्थः : । अत्यन्तादाढ्यं प्रदर्शनाय कार्यस्यापि स्फुटनस्य कारणाद्वारणात्पूर्व कालत्वं तेन प्रतिपादितम् । तदुक्तम् — ' कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः' इति । स एव शैल उत्खायाप्युत्पाटयापि विसृज्यते त्यज्यते । क्व सति । भरे कार्ये कार्याध्यवसाये वा आपूर्यमाणे सति । तथा च कार्यक्षमत्वेनादृढस्य त्यागादन्यस्य च दृढस्योत्पाटने साकाङ्क्षत्वात्कपीनां बलवत्त्वमुद्योगशीलत्वं चोक्तम् । कार्योपयुक्ता एवाद्रियन्त इति ध्वनिः । एकत्र शिखरस्य परत्र शिखरिणो दाढर्घाभाव उक्त इत्यपौनरुक्त्यम् ।।६७।।
विमला - जिसका शिखर गिर कर टूट गया अथवा उठाने पर जो शैल टूट गये उन्हें उखाड़ कर भी वानरों ने वहीं त्याग दिया, क्योंकि उनसे उनका काम चल नहीं सकता था ॥६७॥
गजवधूनामवस्थामाह
लोअणवस्त्तन्तरिए कणे रुअतिओ
धारेन्ति वामइए कणेरुअन्तीओ ।
मण्णेन्ति श्र आसाअं विसं णवप्रणस्स
Jain Education International
[ षष्ठ
विरहम्मि जूहबहणो विसण्णव प्रणस्स || ६८ ।।
[ लोचनपत्रान्तरितान्कणान्रुदत्यो
धारयन्ति
बाष्पमयान्करेणुपङ्क्तयः ।
मन्यन्ते चास्वादं विषं नवतृणस्य
विरहे यूथपतेर्विषण्णवदनस्य (विसंज्ञवचनस्य वा ) ॥] यूथपतेर्गजराजस्य संभ्रमेण विश्लिष्टस्य विरहे सति करेणुपङ्क्तयो लोचनपत्रं पक्ष्म तदन्तरितान्वाष्पमयान्कणान्धारयन्ति । अश्रुत्यागं कुर्वन्तीत्यर्थः । नवतृणस्य चास्वादं विषं मन्यन्ते । तं विना तमपि न कुर्वन्तीत्यर्थः । यूथपतेः किंभूतस्य । विषण्णं विषादशालि वदनं यस्य । यद्वा विसंज्ञं चैतन्यशून्यं वचनं यस्य । वयं तु— नवगणस्य यूथान्तरस्यासादं प्राप्ति विषं मन्यन्ते । तत्रापि नानुरज्यन्तीत्यर्थं इति ॥ ६८ ॥
For Private & Personal Use Only
www.jainelibrary.org