________________
२२४ ]
पर्वतोपमर्दमाह
सेतुबन्धम्
पाअवा अ पासल्लसेल विसमाणिप्रा चुणिआ दलिञ्जन्तदलुबिसमाणिआ । जलहरा अ विहडन्तम हिन्दरवाविआ
वणलआ अ घोलन्ति महिं दरवाविआ ।। ६२ ।।
[ पादपाश्च पार्श्वायितशैलविषमानीताचूर्णिता दल्यमानदलोर्वीसमापिताः । जलधराच विघटमानमहेन्द्ररवावृता वनलताश्च घूर्णन्ते महीं दरवापिताः ॥ ]
Jain Education International
पादपाश्चूर्णिताश्च । कीदृशाः । पार्श्वयिते वक्रीभूतशैले महेन्द्रनामनि विषमानीता वैषम्यमागताः । स्वयमपि वक्रीभूता इत्यर्थः । अत एव दल्यमानः खण्ड्यमानो दल एवदेशो यस्यास्तथाभूता या उर्वी भूमिस्तया समापिताः समाप्ति नीताः । शैले पावयिते वृक्षाः पावयितास्ततस्तद्भरेण तन्मूलभूमिस्त्रुटिता तथा सह भूमौ पतित्वा चूर्णिता इत्यर्थः । यद्वा दल्यमानदलायामुर्व्यां सम्यक्प्रकारेणार्पिताः प्रापिताः । कपिभिरेव भवत्वा क्षिप्ता इत्यर्थः । तदभिघातेन भूमिरपि खण्डितेति दल्यमानपदतात्पर्यम् । यद्वा पूर्वनिपातानियमाद्विषमानीतशैलपावयितास्तत्र विषमानीतो बक्रीकृतो यः शैलस्तस्य पावयिताः पञ्जरायिताः । नतोन्नतत्वेन सान्तरालत्वादित्यर्थः । वस्तुतस्तु पादपाश्चूर्णिताश्च । कीदृशाः । पार्श्वयिते शैले विषमा नतोन्नतत्वेन स्कन्धाद्यारोपणप्रतिकूलाः । अत एव नीता हस्तेनावचितास्त एब दल्यमानदलोय समापिताः । क्षेपणानन्तरं तया सह भूमी विशीर्णा इत्यर्थः । 'अलुग्वि' इति पाठे दल्यमाना तलोर्वी वृक्षतलभूमिरिति व्याख्येयम् । जलधराश्च विघटमानस्य महेन्द्रपर्वतस्य रवेण दलनोत्थेनावृता आच्छन्नाः सन्तो घूर्णन्ते । शब्दभयेन तदनवच्छिन्न देशगमनायेत्यर्थः । एवं शैले पावयिते वनलताश्च घूर्णन्ते । तदाश्रितत्वादुद्धृत्य पतन्तीत्यर्थः । किंभूताः । महीं पृथ्वीं दरं ईषद्वापिताः प्रपिताः । उद्वर्तने सति किं विद्भूसम्बन्धात् । वापिता इति ' वा गतिगन्धनयो:' अस्य णिचि ॥६२॥
[ षष्ठ
विमला - पर्वत के वक्र हो जाने पर वृक्ष भी वक्र हो गये और उनके भार से उनकी मूलभूमि भी दलित हो गयी एवम् उसके साथ ही वृक्ष भूमि पर गिर कर चूर-चूर हो गये । विघटित महेन्द्रगिरि की ध्वनि से आच्छादित बादल मारे - मारे फिरने लगे । वनलतायें टूट कर उलट गयीं और पृथिवी का ईषत्स्पर्श करती हुई गिर गयीं ॥ ६२ ॥
For Private & Personal Use Only
www.jainelibrary.org