________________
माश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ २२१
ईश्वरा गन्धर्वादयो यत्र तद्यथा स्यादिति चलितकंदरैनमिति वा क्रियाविशेषणम् । गिरिचलने तेषामपि चलनात् । एवं गिरौ चलति गजकुलं दरेण त्रासेन स्फुटति स्वयूथाद्भ्रश्यति । कीदृक् । अनालीढमनास्वादितं कं जलं येन तत् । तथा च त्रासेन यूथ्य वियोगेन च जलमपि न पिबतीत्यर्थः । एवं गिरिचलने सति गिरिशिखराणि समं च तद्विषमं चेति समविषमं यथा स्यादेवं नमन्ति । कीदृशानि । उच्छलितनदीजलसंबन्धात्सरसेन हरितालेन पङ्कितानि पङ्कीकृतानि । पङ्कविशिष्टानीत्यर्थः । एवं हरिजालेन कपिसमूहेन वक्रितानि हस्तेनामोटितानि । यद्वा हरितालवक्रितानि हरीणां तालेन चपेटेन वक्रितानि अत एव समविषमं नमन्तीत्यर्थः । यद्वा हरितालवाङ्कितानि । हरिता दूर्वास्तासां लवैः खण्डैरङ्कितानि चिह्नितानीत्यर्थः । यद्वा हरिकालवक्रितानि । हरिः कपिः स एव कालोपमस्तदुपद्रवकत्वात् तेन वक्रितानि । यद्वा हरिजालपाङ्कितानि । हरिजालं पान्तीति हरिजालपाः कपिश्रेष्ठा अङ्गदादयस्तैरङ्कितानि क्रोडीकृतानि । आक्रान्तानीत्यर्थः ॥ ५६ ॥
विमला - पर्वत चलने लगे । उनके चलने पर कन्दरायें भी चलने लगीं । गज भय से अपने समूह से तितर-बितर हो गये और त्रास के मारे जल भी नहीं पी रहे थे । ( उछले हुये नदी जल से ) सरस हरिताल से पङ्किल, कपिसमूह से वक्र किये गये गिरिशिखर कहीं सम कहीं विषम हो झुक गये ॥५६॥
अथ गिरिकुसुमरजोनिर्गममाह -
पाअवसिहरुत्तिष्णो मलप्रवणपवित्तपवणरभवित्थरिओ ।
संज्ञाराओ व्व णहं अष्फुन्दइ मलिअर विश्वरं कुसुमरओ ॥५७॥ [ पादप शिखरोत्तीर्णं मलयवनप्रवृत्तपवनरयविस्तृतम् ।
संध्याराग इव नभ आक्रामति मृदितरविकरं कुसुमरजः ॥ ]
गिरिसंक्षोभेण पादपशिखरादुत्तीर्णमुत्थितं कुसुमरजो नभ आक्रामति । गच्छ - - तीत्यर्थः । कीदृक् । मलयवनात्प्रवृत्त उद्भूतो यः पवनस्तस्य रयेण विस्तृतम् । एवं मृदिता आक्रान्ता रविकरा येन तथाभूतम् । अत्यध्वं गतमित्यर्थः । संध्याराग इव । यथा संध्यारागी मृदितरविकरं यथा स्यादेवं नभ आक्रामतीति । लघुरपि महदानुकूल्येन महत्पदमारोहतीति ध्वनिः । ताम्रत्वेन संध्यारागपरागयोस्तील्यम् ॥५७॥
विमला - कुसुमरज ने वृक्षों के शिखरों से उड़कर, मलयवन से उत्पन्न पवन के वेग से विस्तृत हो, सन्ध्याराग के समान आकाश को आक्रान्त कर लिया, जिससे सूर्य की किरणें छिप गयीं ।। ५७ ।।
अथ शैलमूलकर्दमोत्थानमाह-
कढिअमूल निरन्तर रसालु विखत्तसलिल कद्दमघडिया
वदन्ति त्ति मुनिज्जइ गज्जइ ण मुग्रन्ति महिअलं ति महिहरा ||५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org