SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२१३ यमागेत्याप्यमानेषु पुनः संत्रियते विस्तृतकुञ्चित वस्त्रादिवद्वतु लीक्रियत इव । उत्क्षिप्तपर्वतच्छन्नतया नभसः प्रकाशाभावादिति भावः ॥४१॥ विमला-वानर पर्वतों को उखाड़ने के निमित्त जब तिरछा करते तब शिखरों से प्रतिमुक्त आकाश व्यक्त होने लगता था और जब सीधा उन्हें ऊपर उभाइते तो पुनः (शिखरों से आच्छन्न होने से ) ढक उठता था ॥४१॥ अथ पर्वतानां स्कन्धारोपणमाह उम्मूलेन्ति पवंगा भुअसिहरारहणणिच्चलपरिग्गहिए । कड़मावडगुत्थति अविसमविवत्तविवरम्म हा घरगिहरे ॥४२॥ [ उन्मूलयन्ति प्लवगा भुजशिखरारोहणनिश्चलपरिगृहीतान् । कटकापतनोत्तम्भितविषयविवृत्तविपराङ्मुखा धरणिधरान् ॥ ] प्लवंगा धरणिधरानुन्मूलयन्ति उत्थापयन्ति । तत्प्रकारमाह-कथंभूतान् । भुजशिखरेषु बाहुमूलेषु स्कन्धेषु वा यदारोपणमारोहणमर्थादेषामेव तेन निश्चलं स्थिरं परिगृहीतानुत्थापयितुं धृतान् । एवंप्रकारेण धृत्वोत्पाटयन्तीत्यर्थः । किंभूताः प्लवंगा: । कटकस्य पूर्वविघटितस्य तन्नितम्बस्य पत नेनाधःस्खलनेनोत्तम्भितमुत्थापितं गिरियन्त्रितस्य स्वस्यैव पतनभयात् अथ च विषमं नतोन्नतं सद्विवत्तं तिर्यकृतं अत एव विपराक् पश्चाद्गतं मुखं येषां ते। गिरीणामसतिनां त्रुटितो नितम्बो मुख एव पतेदिति शङ्कया पश्चात्कृतमुखा इत्यर्थः । भन्योऽपि गुरुद्रव्योत्तोलने मुखमन्यत: करोतीति ध्वनिः । एतावता व्यवसायबाहुल्यम् । 'कटकं वलये सानो राजसेना नितम्बयोः' इति विश्वः ।।४२।। विमला-पर्वतों को उखाड़ते समय वानरों ने कन्धा लगा कर उस पर पर्वतों को अच्छी तरह धर लिया और पर्वतों का उपत्यका भाग कहीं मुख पर ही न गिर पड़े, इसलिये मुख कुछ ऊपर उठा कर पीछे की ओर फेर लिया ॥४२॥ गिरिचन्दनशाखाभङ्गमाह हरि अकडि ढ अमुक्का भअङ्गदढवेढणावलम्बगथरिमा। भिज्जन्ता वि महिमले प्रोप्रल्लन्ति ण पडन्ति चन्दणविडवा ॥४३॥ [हरिभुजकृष्टमुक्ता भुजंगदृढवेष्टनावलम्बनधृताः । भिद्यमाना अपि महीतलेऽवनमन्ति न पतन्ति चन्दनविटपाः ॥] चन्दन विटपा भिद्यमाना अपि भवनमन्ति अन्तरिक्ष एव तिष्ठन्ति महीतले न पतन्ति । कीदृशाः । हरीणां भुजेन हस्तेन कृष्टाः पुनर्मुक्तास्त्यक्ताः । एवं भुजंगानां दृढं यद्वेष्टनं मदीयवृक्षस्य शाबा केनाकृष्यत इति रुषा वृक्षमाश्रित्य शाखासु पुच्चस्व कुण्डलीकरणं तदेवावलम्बनमवष्टम्भस्तेन धृताः । तथा च कपिभिरुदहनसोकर्याया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy