________________
१६८ ]
सेतुबन्धम्
जलदाहेन शुष्के खातवर्त्मनि पातालेन पारगमनमप्यनुपपन्नमित्याह-अपरिट्ठिअमूलअलं जत्तो गम्मइ तह वलन्तमहिअलम् । सलिल जिब्भरं चित्र खविए वि ममम्मि दुग्गमं पाआलम् ॥१६॥ [ अपरिस्थितमूलतलं यतो गम्यते तत्र दलन्महीतलम् । न खलु सलिलनिर्भरमेव क्षपितेऽपि मयि दुर्गमं पातालम् ॥ ]
हु
सलिलनिर्भरं सलिल पूर्णमेव पातालं दुर्गममिति न खलु । येन संचाराय जलानि दहसि । अपि तु क्षपिते शोषितेऽपि मयि दुर्गमम् । जलशोषेऽपि पारगमनमशक्यमित्यर्थः । ' सलिल णिब्भरश्चिभ' इति पाठे सलिलनिर्भर एवं मयि पातालं दुर्गममिति न किं तु । क्षपितेऽपीत्यर्थ । अत्र हेतुमाह - पातालं कीदृक् । अपरिस्थितं न परि सर्वतोभावेन स्थितम् । अदृढमित्यर्थः । एवंभूतं मूलतलं यस्य । जलार्द्रत्वात् । अत एव यतो यत्र गम्यते चरणन्यासः क्रियते तत्रैव दल द्विधा - भवन्महीतलं यत्र तथाभूतम् । तथा च जलशोषेऽपि खाताभ्यन्तरपाताले यत्रैव पदन्यासः कर्तव्यस्तत्रैव प्रशिथिलत्वात्संचारो न स्यादिति प्रकारान्तरमनुसरणीयमिति भावः ॥ १६ ॥
विमला - सलिलपूर्ण ही नहीं, मुझे शुष्क कर देने पर भी पाताल दुर्गम है क्योंकि ( जलार्द्र होने से ) इसका मूल तल [ अपरिस्थित] अदृढ है, अतएव जहाँ ही पैर रक्खेंगे वहीं महीतल दलित हो जायगा ( अतएव प्रशिथिल होने से सुखसञ्चार अशक्य होगा ) ।। १६ ।।
अथ सेतुरूपप्रकारोपन्यासमुखेन प्रकृतमुपसंहरति
तं कालस्स णिसम्म उ कह वि दरुवित्तदसमकण्ठक्ख लिअम् । घडिग्रगिरिसेउबन्धं चिरप्रालाउञ्चिअं दहमुहम्मि पअम् ॥१७॥
[ तत्कालस्य निषीदतु कथमपि दशेत्कृत्तदशमकण्ठस्खलितम् । घटितगिरिसेतुबन्धं चिरकालाकुञ्चितं दशमुखे पदम् ॥ ]
[ षष्ठ
यतो जलशोषादपि पारगमनं नास्ति ततो हेतोर्घटितो निर्मितो गिरिभिः सेतुबन्धः सेतुयोजनं यस्मै तद्यथा भवति तथा कालस्य यमस्य पदं दशमुखे कथमपि येन तेन प्रकारेण निषीदतु । रामस्य पारगमने सति दशमुखनाशः स्यादिति राव - शिरसि यमपदन्यासे सेतुबन्धस्य प्रयोजकत्वमिति तादर्थ्येन क्रियाविशेषणत्वम् । किभूतं पदम् । ईषत्खण्डिता द्दशमकण्ठात्स्खलितमपव्यस्तम् । अत एव चिरकालं व्याप्याकुश्चितमुत्तोल्य धृतं न तु स्थापितम् । अयमाशयः ---नवसु निकृत्तेषु दशमं कण्ठमुत्खण्डयितुं प्रवृत्तो रावणः शिवेन वरं दत्त्वा न्यवर्त्यत इति तत्कर्तने रावणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org