________________
चतुर्थ आश्वासः अथ वानराणामुत्तेजनादवस्थान्तरमाह
अह पढमवअणणिहुअं पच्छा उम्हइ अलज्जिअं क इसेग्णम् । ससिदसणपासुत्तं कमलवणं व दिप्रसागमेण विबुद्धम् ।।१।। [अथ प्रथमवचननिभृतं पश्चादूष्मायितलज्जितं कपिसैन्यम् । शशिदर्शनप्रसुप्तं कमलवनमिव दिवसागमेन विबुद्धम् ॥ ]
अथ सुग्रीवस्याहंकारानन्तरं कपिसन्यं विबुद्धं सचेष्टमासीत् । कीदृशम् । प्रथमवचनेन सुग्रीवस्य प्रबोधवाक्येन निभृतं निश्चेष्टम् । प्रेरणामधिगत्य सचिन्तत्वात् । पश्चाद्वितीयवचनेनोष्मायितं पराहंकारासहिष्णुतया सतेजः । तत एव ममानध्यवसायः परैरवसितः सजातीयस्य च सुग्रीवस्याध्यवसाय इति लज्जितम् । अत्रोपमामाह-कमलवनमिव । यथा कमलवनं दिवसागमेन बुध्यते विकसति । कीदृक् । शशिदर्शनेन रात्री प्रसुप्तं मुद्रितम् । अत्र शशिदर्शनप्रायं सुग्रीवस्य प्रथमवचनम् । प्रभातप्रायं द्वितीयवचनम् । कमलवनप्रायं कपिसैन्यम् । अन्यदपि सुप्त जामति ध्वनिः ॥११॥
विमलातदनन्तर जैसे शशिदर्शन से प्रसुप्त (मुद्रित ) कमलवन दिवस के आगमन से विबुद्ध (विकसित ) हो जाता है वैसे ही सुग्रीव के प्रथम वचन से निश्चेष्ट एवं द्वितीय वचन से सतेज तथा लज्जित कपिसैन्य विबुद्ध ( सचेष्ट) हो गया ॥१॥ अथ कपीनामैकमत्यमाहणवरि अकई हिसआई धुप्रन्धमारविअडाई गमणुच्छाहो । एक्को बहुआइ समं गिरिसिहराई अरुणाप्रवो व्व विलग्गो ।।२।। [अनन्तरं च कपिहृदयानि धुतान्धकारविकटानि गमनोत्साहः।. एको बहूनि समं गिरिशिखराण्यरुणातप इव विलग्नः ॥] प्रबोधानन्तरं च एक एकाकारो लङ्कां प्रति गमनोत्साहो बहूनि कपीनां हृदयानि सममेकदैव विलग्नः । सर्वेऽपि लङ्कागमनसाभिलाषा बभूवुरित्यर्थः । हृदयानि किं भूतानि । धुतेनान्धकारेणानध्यवसायसमुत्थेन मोहेन विकटानि व्यक्तानि । उत्साहप्रकाशादिति भावः । दृष्टान्तमाह-यथैको बालातपस्तिमिरविरहेण प्रकटानि बहूनि गिरिशिखराण्येकदैव लगति । अत्रोत्साहस्य तदानीमुत्पन्नमात्रत्वेन कोमल त्वादने दुःसहीभविष्णुत्वाच्चारुणातपसाम्यम् ।।२।।
८ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org