________________
आश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ १०६
विमला - अथवा समुद्र के अभिमुख मेरे प्रस्थान करने पर संचार के लिये गगन पर्याप्त नहीं है, अतः रुधिर - वसा - ( चर्वी ) - मांस के पुञ्जमात्र शत्रु रावण का ही वध कर सुखित-सा होकर रहूँ ॥५७॥
अथ शरीरस्य लाघवमुक्त्वा गौरवमाह -
णि सुढिज्जन्तमुअंगं मा मुज्झह मह सरोसचलणक्कन्तम् । जत्तो णमइ महिश्रलं तत्तो णाम सअलो पट्टउ उग्रही ॥ ५८ ॥ [ निपात्यमानभुजंगं मा मुह्यत मम सरोषचरणाक्रान्तम् । यतो नमति महीतलं ततो नाम सकलः प्रवर्ततामुदधिः ॥ |] हे वानराः ! मा मुह्यत समुद्रः कथं संतरणीय इति मोहं मा गच्छत । यद्वा मदुक्तौ मोहं संशयं मा कुरुत । मयोच्यमानं सत्यमेवेति भावः । मम सरोषं यथा स्यादेवं चरणाभ्यां चलनेन संचारेण वा आक्रान्तं सत् यतो यत्र महीतलं नमत्यधो गच्छति । नाम संभावनायाम् । ततस्तत्र सकल : समुद्रः प्रवर्तताम् । नमने हेतु - माह - महीतलं कीदृक् । निपात्यमानो भुजंगः शेषो यस्मात्तम् । अयं भावः--- मयि सक्रोधं चलति चरणभरादवनमन्त्यां भूमौ शेषो महीमपहायाधो गच्छेदथ मही तदुपरि तेदेवमुत्तरोत्तरमिति वर्तमानार्थकशानच्प्रत्ययेन द्योत्यते । तथा च तथा पृथिवी नमेद्यथा निम्नतोत्कर्षेण सकलजल प्रवेशात्तत्रैव समुद्रः स्यात् । अथोन्नम्य तुच्छीभूतेन समुद्रखातेन कपयः पारमुत्तरन्त्विति भावः ॥ ५८ ॥
विमला - ( अथवा ) वानरों ! तुम सब मोह को न प्राप्त होओ। मेरे सक्रोध चलने पर शेषनाग पृथ्वी को छोड़ नीचे चला जायगा और पृथ्वी इतनी नीचे धँस जायगी कि सारा समुद्र उसी में आ जाय । तब सब वानर सूखे समुद्र मार्ग से उस पार चले जायँ ) ।। ५८ ।।
शरीरबलमुक्त्वा भुजाबलमाह
श्रो जमलक्खम्भेहिं व धरिएण भुहिए मह महोग्रहिमज्झे । उम्मूलिनाइएणं समइञ्छउ विञ्झसं कमेण कइबलम् ॥ ५६ ॥ [उत युगलस्तम्भाभ्यामिव धृतेन भुजाभ्यां मम महोदधिमध्ये | उन्मूलितानीतेन समतिक्रामतु विन्ध्य संक्रमेण कपिबलम् ||] उत पक्षान्तरे | उन्मूलितेनोत्पाटितेन अथानीतेन विन्ध्यरूपसंक्रमेण कपिबल समतिक्रामतु । समुद्रमित्यर्थात् । संक्रमघटनप्रकार माह- कथंभूतेन संक्रमेण । युगलस्तम्भाभ्यामिव मम भुजाभ्यां महोदधिमध्ये धृतेन । तथा च जलमध्य निखातस्तम्भद्वयाकारी मद्बाहू भविष्यतस्तदुपरि जलयन्त्रविशेषप्रायो विन्ध्यस्तेन समुद्रान किमान विन्ध्योत्पाटनधारणसमर्थत्वेन भृजयोरतिमहत्त्वमुक्तम् । 'महोदधिपृष्ठे (महो अहिवट्ठे ) ' इति पाठे मच्चरणद्वयावष्टब्धदक्षिणोत्तरती रद्वयोपरि तीर्थक्पातितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org