________________
१०६ ] सेतुबन्धम्
[तृतीय तो फुडसवुद्धाइअधणदवभरिमगिरिकंदराप्रारमुहो । रिउविक्कममसहन्तो जम्पइ वाणरबई पुणो वि हसन्तो ॥५२॥
(युग्गअम् ) [इति यदा प्रभण्यमानं न चलति चिन्ताभरावसीदच्छरीरम् । आकर्षणनिश्चेष्टं पङ्कमग्नमिव गजकुलं कपिसैन्यम् ।। ततः स्फुटशब्दोद्धावितवनदवभृतगिरिकंदराकारमुखः । रिपुविक्रममसहमानो जल्पति वानरपतिः पुनरपि हसन् ॥]
(युग्मकम् ) इत्यनेन' प्रकारेण प्रभण्यमानं कपिसैन्यं यदा न चलति न स्पन्दतेऽपि तदा वानरपतिः सुग्रीवो हसन्नात्क्रोधेन पुनरपि जल्पतीत्यग्रिमस्कन्धकेन समन्वयः । कपिसन्यं कीदृक् । किं स्यादिति चिन्ताभरेणावसीदत्कृशीभवच्छरीरं यस्य तत् । एवमाकर्षणे समुद्रलङ्घनायाह्वाने निश्चेष्टं किं कर्तव्यविमूढम् । किमिव । गजकुलमिव । यथा पङ्कमग्नं गजकुलं न चलति तदपि चिन्तावसन्नवपुराकर्षणे सति निःस्पन्दं महाकायत्वादित्ययः । वानरपतिः कीदृक् । स्फुट: शब्दो यस्य तादृगुद्धावितः प्रसरणशीलो यो वनदवस्तेन भृता पूर्णा या गिरिकंदरा तदाकारमुखो मुखन्यादानाज्जल्पन् । पाकज(?)शब्दयोमुखाभ्यन्तरलौहित्यवनदवयोमुखकंदरयोश्च साम्यम् ।। युग्मकम् ।।५१-५२।।।
विमला-इस प्रकार कहा जाता हुआ कपिसैन्य पङ्कमग्न गजसमूह के समान चिन्ता से कृश शरीर तथा आकर्षण ( समुद्रलकन के लिये आह्वान ) करने पर निश्चेष्ट हो टस से मस नहीं हुआ तो स्फुट शब्द करते प्रसरणशील वनाग्नि से पूर्ण गिरिकन्दरा के समान मुखवाला वानरपति सुग्रीव, शत्रु के विक्रम को न सहता हुआ हँसकर ( वक्ष्यमाण ) वचन पुनः बोला ।।५१-५२॥ अर्थकादशभिः कपीनामुत्तेजकं सुग्रीवप्रतिज्ञावचनमाहइम्र अस्थिरसामत्थे अण्णस्स वि परिअणम्मि को प्रासङ्गो। तत्थ विणाम दहमहो तस्स ठिमो एस पडिहडो मज्झ भुनौ॥५३॥ [इत्यस्थिरसामर्थेऽन्यस्यापि परिजने कोऽध्यवसायः (आसङ्गः)। तत्रापिनाम दशमुखस्तस्य स्थित एष प्रतिभटो मम भुजः ॥]
इत्यनेन प्रकारेणास्थिरं सामर्थ्य यस्य तस्मिन्परिजनेऽन्यस्यापि शत्रोरपि कोऽध्यवसायः । अपि तु न कोऽपि । यथा मम परिजनो गृहं गत्वा सामर्थ्य प्रकाशयति युद्धभूमावनध्यवसायवांस्तथा रावणस्यापीत्यर्थः । तेन किं स्यादित्यत आहतत्रापि शत्रोः परि जनेष्वनध्यवसायेऽपिनाम संभाव्यते शङ्कयते । स रावणो मदान्धो दर्पशीलश्च । तथा च परिजनानस्मदृष्टान्तेनाध्यवसायादुपेक्ष्यास्मानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org