________________
८६]
सेतुबन्धम्
[ तृतीय
[अव्यवच्छिन्नप्रसरितोऽधिकमुद्धावति स्फुरितसूर(सूर्य)च्छायः ।
उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्रोतः ।।] सुभटानामुत्साहो वीररसस्थायी विषमे संकटे स्खलितः परैः प्रतिहतः सन्नधिकमुद्धावति वर्धते । कीदृक् । अव्यवच्छिन्नः सन्प्रसृतः । परैरनाक्रान्तत्वात् । एवं स्फुरिता शूरस्य छाया कान्तिर्यस्मात् । शूराणामेवोत्साह उत्पद्यत इति भावः । दृष्टान्तयति-यथा महानदीनां स्रोतोऽव्यवच्छिन्नप्रसृतं स्फुरिता सूरस्य सूर्यस्य च्छाया प्रतिबिम्बो यत्र तथाभूतं सत्पर्वतादिनिम्नोन्नतप्रदेशे स्खलितमधिक मुद्धावत्यूर्ध्वमुत्तिष्ठति । तथा वीराणामप्युत्साहो यथा यथा विषमभूमिलाभस्तथा तथा प्रौढिमालम्बत इति तात्पर्यम् । 'छाया स्यादातपाभावे प्रतिविम्बेऽर्कयोषिति ।' इति ॥१७॥
विमला-निरन्तर बढ़ा हुआ, वीरों की कान्ति को स्फुरित करने वाला वीरों का उत्साह संकट में शत्रुओं से प्रतिहत हो अधिक बढ़ता है-यह ठीक ही है, क्योंकि निरन्तर बढ़ा हुआ, स्फुरित सूर्य के प्रतिबिम्ब से सुशोभित महानदियों का प्रवाह, पर्वतादि ऊंचे-नीचे प्रदेश में स्खलित हो अधिक ऊपर को उठता है ।
विमर्श-'दृष्टान्त' अलंकार है ॥१७॥ गमनप्रतिबन्धकसमुद्राक्रान्ता भवतां शोभा समुद्र मुल्लङ्घ्य हनुमताप्याक्रम्यत इति नोचितमित्याह
माणेण परिविआ कुलपरिवाडिघडिया अणोण अपुव्वा । चिन्तेउं पि ण तीरइ ओहप्पन्ती परेण णि अअच्छा ॥१८॥ [मानेन परिस्थापिता कुलपरिपाटिघटिता अनवनतपूर्वा । चिन्तयितुमपि न तीर्यते आक्रम्यमाणा परेण निजकच्छाया ।।]
निजकच्छाया निजप्रतिष्ठा परेणाक्रम्यमाणा चिन्तयितुमपि न तीर्यते न शक्यते । किं पुनः सोढुमित्यर्थः । कीदृशी । मानेन मनस्वितया परिस्थापिता। एवं कुलपरिपाट्या वंशानुक्रमेण घटिता। यथा पूर्वपुरुषैरजिता तथेत्यर्थः । तदुक्तम्-'निजबंशोचितपौरुषग्रहः। एवमनवनतपूर्वा पूर्व नावनता। अक्षुण्णेत्यर्थः। तथा च भवतामीदृशप्रतिष्ठारक्षणं समुद्र लधनादेवेति भावः । अथ च निजकच्छाया आतपाभावः परेणोल्लङ्घ्यमाना चिन्तयितुमपि न शक्यते । छायालङ्घने दोषोत्पत्तेः । सापि कीदृशी। मानेन पुरुषपरिमाणेन स्थापिता। यावत्परिमाणं पुरुषस्य तदनुरूपा छायापीत्यर्थः । एवं कुपृथ्वीं लात्यादत्ते तत्र लीयत इति कुलं शरीरं तत्परिपाट्या तत्क्रमेण घटिता संबद्धा। शरीरोत्थापनोपवेशनचलनक्रमेणोत्तिष्ठन्ती उपविशन्ती चलन्ती लक्ष्यत इत्यर्थः । एवं न अवनतो नम्रः पूर्व: पूर्वभागो यस्याः सा तथा छाया। पूर्वभागस्य सदैवोच्छितत्वादिति भावः ।।१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org