________________
पियदंसणेवि जाए अज्जवि सोगाउरं दढं हिययं । पियसहि ! मह संतावो तेणज्जवि बाहए देहं ॥ २२२ ॥ सत्तुंजयपारद्धो वट्टइ पाणाण संसए ताओ । ता कह अणुकूलत्तं विहिणो मह मंदभागाए ? ॥ २२३ ॥ इय भणिऊणं हंसिणि ! सोगावेगाओ रोउमारद्धा । ताव य कयकायव्वो समागओ तीए सो भाया ॥ २२४ ॥ भणिया य तेण किमियं पियंवए ! रुयइ तुज्झ पियभगिणी । तीएवि सव्वं सोयस्स कारणं तस्स अक्खायं ॥ २२५ ॥ तत्तो य तेण भणियं सुंदरि ! मा रूय अवस्समजेव । गंतुं कयंतवयणं नयामि तुह जणयपडिवक्खं ॥ २२६ ॥ जीवंते मइ सुंदरि ! को तुह जणयं पराभवेजति ? । ता गच्छिस्सं संपइ बाहुसहाओ अहं तत्थ ॥ २२७ ॥
प्रियदर्शनेऽपि जाते शोकातुरं दृढं हृदयम् । प्रियसखे ! मम संतापस्तेनाद्यापि बाधते देहम् ॥ २२२ ॥ शत्रुञ्जयपीजितो वर्तते प्राणानां संशये तातः । तस्मात्कथमनुकुलत्वं विधेर्मम मन्दभाग्यायाः? ॥ २२३ ॥ इति भणित्वा हंसिनि ! शोकावेगात् रोदितुमारब्धा । तावच्च कृतकर्तव्यस्समागतस्तस्याः स भ्राता ॥ २२४ ॥ भणिता च तेन किमियं प्रियंवदे ! रोदिति तव प्रियभगिनी । तयाऽपि सर्वं शोकस्य कारणं तस्याऽऽख्यातम् ॥ २२५ ॥ ततश्च तेन भणितं सुन्दरि ! मा रुदिहि अवश्यमद्यैव । गत्वा कृतान्तवदनं नयामि तव जनकप्रतिपक्षम् ॥ २२६ ॥ जीवति मयि सुन्दरि ! कस्तव जनकं पराभवेदिति ? । तस्मात् गमिष्यामि संप्रति बाहुसहायोऽहं तत्र ॥ २२७ ॥
१. बाधते पीडितं भवति । २. रो-रोदितुम् । ३. रुदिहि । ४. बाहुसहायः, एकाकीत्यर्थः।
५०२
द्वादशः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org