________________
तं कइय दिणं होही जम्मि ससिणेहनिद्धदिट्ठीए । पुव्वभवनेहबद्धं पेच्छिस्सं वल्लहं तमहं ? ॥ ७१ ॥ कह सो मे दट्ठव्वो सिग्धं कह तेण संगमो होही । एवंविहचिंताए जाया सोगाउरा अहयं ॥ ७२ ॥ तं चिय चितंतीएऽवक्खित्तमणाइ आगयावि तुमं । पियसहि ! नो सच्चविया तेण न संभासिया भद्दे ! ॥ ७३ ॥ तं जं तुमए पुढे जायं किं सोगकारणं तुज्झ । पियसहि ! धारिणि ! तं तुह नीसेसं साहियं एयं ॥ ७४ ॥ अह धारिणीए भणियं केवलिवयणं न अन्नहा भद्दे ! । ता कीस कुणसि सोयं एवं एएण होयव्वं ? || ७५ ॥ हसिऊण मए भणियं एवं एयंति नत्थि संदेहो । नवरं अइउक्कंठा तुवरइ मह माणसं सुयणु ! ॥ ७६ ॥ तं कदा दिनं भविष्यति यस्मिन् सस्नेहस्निग्धदृष्टया । पूर्वभवस्नेहबद्धं प्रेक्षिष्ये वल्लभं तमहम् ॥ ७१ ॥ कथं स मया दृष्टव्यः शीघ्रं कथं तेन सङ्गमो भविष्यति । एवंविधचिन्तया जाता शोकातुराऽहकम् ॥ ७२ ॥ तमेव चिन्तयन्त्याऽक्षिप्तमनसाऽऽगताऽपि ! त्वं । प्रियसखे ! न दृष्टा तेन न संभाषिता भद्रे ! ॥ ७३ ॥ तद्यत्त्वया पृष्टं जातं किं शोककारणं तव । प्रियसखे ! धारिणि ! तत्तव निःशेषं कथितमेतद् ॥ ७४ ॥ अथ धारिण्या भणितं केवली वचनं नान्यथा भद्रे ! । ततः कस्मात् करोषि शोकमेवमेतेन भवितव्यम् ? ॥ ७५ ॥ हसित्वा मया भणितं एवमेतदिति नास्ति सन्देहः । नवरं अत्युत्कण्ठा त्वरते मम मानसं सुतनो ! ॥ ७६ ॥
१. कइय-कदा । २. त्वरते ।
सुरसुन्दरीचरित्रम्
सप्तमः परिच्छेदः
२६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org