SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां 'संयोगे' इत्यनुवर्तते । आदेरिकारस्य युक्ते परे एत्वं तु भवति । धम्मिल्लधरः । धम्मेल्लहरो । धम्मिल्लहरो । इत्यादि ॥ मृषिकविभीतकहरिद्रापथिपृथिवीप्रतिश्रुत्यत् ॥१।२।४३ ॥ 'इतः' इत्यनुवर्तते । एष्वादेरिकारस्याकारः स्यात् । मूसओ । विभीतक शब्दे इतः अत्वे भस्य हल्वे 'ईतः काश्मीरहरीतक्यो लौ' इत्यतः 'ईतः' इत्यधिकृत्य एल्पीडनीडकीदृशपीयूषविभीतकेदृशापीडे ॥ १।२।५७ ॥ पीडादिष्वादेरीकारस्य एत्वं लित् स्यात् । लित्वान्नित्यम् । इत्येत्वे । 'प्रतिगेप्रतीपगे' इति प्रत्यादिपाठात् तस्य डकारः । वहेडओ । वेङ्गुदशिथिलयोः ॥१।२ । ४६ ॥ 'इतः' इत्यनुवर्तते । 'अत्' इति च । इङ्गुदशिथिलयोरादेरितः अत्वं वा स्यात् । इङ्गुन्दरसः । अंगुअरसो । इंगुअरसो । शिथिलः । सढिलो । सिढिलो । अत्र 'प्रथमशिथिल-'इत्यादिना तोढत्वम् । णिम्माणं णिम्मिअं॥ १।२।४७॥ इत्येतौ निर्मातृनिर्मिताभ्यां भविष्यतः। उ युधिष्ठिरे ॥१।२।४८॥ 'स्वेदितः' इत्यतः 'तु' 'इतः' इति चानुवर्तते । अस्मिन्नादेरित उत्वं वा स्यात् । जत्वहत्वषलोपद्वित्वानि । मुकुरादिपाठादुत अत्वं हरिद्रादित्वाल्लत्वं च । जहुट्ठिलो । जहिट्ठिलो ॥ द्विनीक्षुप्रवासिषु ॥ १।२।४९॥ 'उत्' इत्यनुवर्तते । द्विशब्दे नीत्युपसर्गे इक्षुप्रवासिशब्दयोश्चादेरित उत्वं भवति । पृथग्योगान्नित्यम् । द्विगुणः । दुउणो । अत्र गलोपः । कचिन्ने भवति । निपतति । णिपडइ ॥ __ १°रितो M. २ इत्यधिकृत्य M. ३ After this M. notices also this addition-निर्मेणिम्मवणिम्माणौ इत्युत्तरत्र निपातप्रकरणे निरूपयिष्यते तौ च निर्मितनिर्माणेत्याकारकसंस्कृतरूपतुल्ययोगक्षेमावित्यर्थः ॥ ४ उत्वमनुवर्तते । R., T.; उ इत्यनुवर्तते । M. ५ क्वचिनित्यं न भवति । M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy