SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां अत्र युक्तयोर्यथाक्रमं टठौ भवतः । टहो । स्तब्धः ॥ तो ढो रचारब्धे तु ॥ १।४ । ७३ ॥ आरब्धे युक्तस्य तो वा स्यात् । तत्सन्नियोगेन रस्य च ढः । आढत्तो । पक्षे । आरद्धो । अत्र वबयोरभेदन्यायेन 'लवराम्-' इति वलोपद्वित्वे शोलक्खोः स्तम्बसमस्तनिःस्पृहपरस्परश्मशानश्मश्रुणि ॥१।४।७५॥ स्तम्बादिषु शोः शषसानामादौ वर्तमानानां संयुक्तसंबन्धिनां लुक् स्यात् । तम्बो । समत्तो । णिप्पिहो । अत्र कृपादित्वादृत इत्वम् । इदं सूत्रं 'स्तः' इति सूत्रस्य 'प्पस्पोः-' इति सूत्रस्य 'श्मष्म-' इत्यादिसूत्रस्य चापवादकम् ॥ श्वस्य हरिश्चन्द्रे ॥ १।४ । ७६ ॥ अत्र श्वस्य लुक् स्यात् । हरिअंदो ॥ धात्रीद्रे रस्तु ॥ १।४। ८० ॥ धात्रीशब्दे द्रशब्दे च रेफस्य वो लुक् स्यात् । धात्रीरमणः । धत्तीरमणो । लुगभावे । धारीरमणो । अत्र 'कग-' इति तलोपः । हखात् प्रागेव रेफलोपे । धाईरमणो । द्रे । चन्द्रः । चन्दो । चन्द्रो । रुद्रः । रुद्दो । रुद्रो । इत्यादि । ह्रदशब्दे विशेषः । 'हश्च महाराष्ट्र होर्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य ह्रदे दहयोः ॥ १। ४ । ११५॥ अत्र देहयोर्व्यत्ययः स्यात् । द्रह इति स्थिते । अत्रापि द्रशब्दस्य विद्यमानत्वाद् विकल्पेन रेफलोपे । दहो। द्रहो । केचिन्नेच्छन्ति रेफलो. पम् । द्रहशब्दः संस्कृतेपीति केचित् । द्रहादयस्तरुणपुरुषवाचका इत्यन्ये । भो द्रहो । भो द्रह ॥ १ M. has लुगनुवर्तते before it. २ लुग्वा स्यात् M. ३ धातीरमणो My. ४ हेर्व्यत्ययः M. ५ दकारहकारयो M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy