________________
२१६
षड्भाषाचन्द्रिकायां दुःख विषयस्य कथेः णिव्वर इति वा स्यात् । णिव्वरइ । दुःखं कथयतीत्यर्थः ॥
निषेधेर्हक्कः ॥३।१। ७१ ॥
निपूर्वस्य बिधू शास्त्रे माङ्गल्ये चेत्यस्य हक इति वा स्यात् । हक्कइ । पक्षे । सिहइ ।।
जूरः क्रुधेः॥३।१ । ७२ ॥ क्रुधेर्जूर इत्यादेशो वा स्यात् । जूरइ । पक्षे । कुज्झइ । 'ध्ययो. झल्' इति झल् ॥ विमूरश्च खिदेः ॥३।१। ७३ ॥
खिद दैन्य इत्यस्य विसूर इति वा स्यात् चकारात् जूर इति च । विसूरइ । जूरइ । पक्षे खिज्जइ । अत्र 'घय्याजः' इति घस्य जैः ॥
निरः पद्यतेलः ॥३।१। ७५ ॥ निपूर्वस्य पद्यतेर्वल इति वा स्यात् । णिव्वलइ । पक्षे । णिवज्जइ । संतपां झंखः॥३।१। ७६ ॥
संपूर्वस्य तप्यतेः बहुवचनान्निश्वसिति विलपत्युपालभतीनां च झंख इत्यादेशो वा स्यात् । झंखइ । संतप्यते निश्वसिति विलपति उपालभते वा । पक्षे । णीससिइ । 'शोलप्त-'इति दीर्घः । विळवइ । उपाळहइ । णिरवो बुभुक्षाक्षिप्योः ॥३।१। ७८ ॥
बुभुक्षतेरापूर्वस्य क्षिपतेश्च णिरव इत्यादेशो वा स्यात् । णिरवइ । बुभुक्षते । आक्षिपति वा । पक्षे । बुंहुक्खइ । क्षिपेरड्डक्खपरिहुलघत्तचूहपेल्लणोल्लसोल्लगल्लत्थाः
॥३।१। ७९ ॥
१ जत्वम् T. २ इत्यादेशो M. ३ इति for इत्यादेशो My., P. ४ णीसाइस M. ५ इत्यादेशः । T. ६ बुभुक्खा M.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org