________________
१९९
तिङन्तप्रक्रिया । डं मेश्छात्ततः॥२।४ । ३१॥
भविष्यति दृशादिभ्यो धातुभ्यः पूर्वसूत्रैस्त्रिभिरुक्तानां डच्छ डेच्छ डोच्छानां यश्छकारस्ततः परस्य मेरुत्तमपुरुषैकवचनस्य स्थाने डित् अमित्यादेशो भवति । दच्छं । द्रक्ष्यामि । गच्छं । गमिष्यामि । संगच्छं । संगंस्थे । भेच्छं । भेत्स्यामि । वेच्छं । वेत्स्यामि । चेच्छं । छेत्स्यामि । वोच्छं । वक्ष्यामि । मोच्छं । मोक्ष्यामि । इत्यादि । पक्षे । दच्छिमि । दच्छिहिमि । इत्यादि । 'छात्ततः' इति किम् । अन्येभ्यः परो मा भूत् ॥ णिव्वडो मुचेर्दुःखे ॥३।१।४० ॥ दुःखं मुञ्चत्यर्थमुचेः णिव्वड इत्यादेशो भवति । णिव्वडइ । अवहेडमोल्लणिढुंछोसिक्कदिसडरेअवछंडाः ॥३॥१॥४१॥ 'मुचेः' इत्यनुवर्तते । मुञ्चतेरवहेड इत्यादि सप्तादेशी भवन्ति खरूपार्थे । अवहेडइ । मोल्लइ । पिळच्छइ । उसिक्कइ । दिसडइ । रेअवइ । छंडइ । सिद्धावस्थापेक्षया । मुंचइ । मुंचए ॥ रुधिर् आवरणे । 'अन्त्यस्य वचिमुचि-'इत्यादेः 'अन्त्यस्य' इत्यनुवर्तते ।
रुधो धम्भौ ॥ २।४ । ५०॥ रुधेरन्त्यस्य न्धम्भ इत्यादेशौ भवतः । रुन्धइ । रुम्भइ । ढंसोत्तंघौ विकृतिरुध्योः ॥ ३ । १ । ६४ ॥
विपूर्वकस्य वर्तते रुधेश्च ढंस उत्तंघ इत्येतौ प्रत्येकं वा भवतः । ढंसइ । उत्तंघइ । इदमेव वर्ततेरपि । पक्षे । रुंधइ । वइ । अत्र 'तस्याधूर्तादौ टः' इति तस्य टत्वम् । 'युधबुधगृधक्रुधसिधमुहां च झर्' इति चकारानुकृष्टरुधेरन्त्यस्य झः । रुझइ । रुझए । युजिोंगे
जुंजजुञ्जजुप्पा युजेः ॥२।४ । १३९ ॥ १ स्यात् . २ दुःखविषयस्य मुचिर् मोक्षणे इत्यस्य धातोः T. ३ इत्यादेशः स्यात् T. ४ °देशाः स्युः T. ५ 'मुचिरुचिरुधिश्रुभुजाम्-' इत्यादिना M. ६ स्तः T. ७ स्तः T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org