________________
१७०
षड्भाषाचन्द्रिकायां केचित् । ओसाअण महीशाने ॥ ५॥ अस्मिन्नयं स्यात् । आपोशन इति केचित् । वणई वनराजौ ॥६॥ अस्यामयं स्यात् । वणई । पंगुरणं प्रावरणे ॥७॥ ओसिरणगोसौ व्युत्सर्जनप्रत्यूषयोः ॥ ८॥ अनयोरेतौ क्रमाद् भवतः । थोवथेवथोका स्तोके ॥९॥ आअविरुऔ अब्बिरुद्धयोः ॥१०॥ पत्थेवाअवेलम्बौ पाथेयविडम्बनयोः ॥११॥ अनयोरेतौ क्रमात् स्तः । पत्थेवाओ। वेलम्बो । बालबुलुदकरीरेषु वाअबुलुबुलकरिल्लाः ॥ १२ ॥ एष्वेते क्रमात् स्युः । बाओ । बुलबुलो । करिल्लो । ऊआदोग्गधणिआ युकयुग्मधन्यासु ॥ १३ ।। एष्वेते क्रमात् स्युः । ऊआ । दोगं । धणिआ । उद्वहने णिव्वहणं ॥ १४ ॥ णिव्वहइ । उद्वहतीत्यर्थः । छि छि धिग्धिगित्यर्थे ॥ १५ ॥ घिग्धिगित्यर्थे छिछि इति स्यात् । वृताक्डी ॥१६॥ अस्यामयं स्यात् । ग्रहिल्लो ग्रहले ॥ १७ ॥ अस्मिन्नयं स्यात् । गोसमूहे गोणिको ॥ १८ ॥ गोसमूहे गोणिक्को इति स्यात् । अयुजरेवई अचिरयुवत्याम् ॥ १९ ॥ अस्यामयं स्यात् अयुजरेवई । आणरहू नववध्वाम् ॥ २१॥ अस्यामयं स्यात् । आणरहू । असुरे अमओ ॥ २२ ॥ असुरे अयं स्यात् । अमओ । पण्णवण्णा पञ्चपञ्चाशति ॥ २३ ॥ अस्मिन्नयं स्यात् । पण्णवण्णा । तेवण्णा त्रिपश्चाशति ॥ २४ ॥ पण्णा पञ्चाशति ॥ २५ ॥ गामहणघुसिमे ग्रामस्थानघसृणयोः ॥ २६ ॥ अनयोरेतौ क्रमात् स्तः । गामहणं । घुसिमं । छटायां छट्टा ॥ २७ ॥ पाउरणबइल्लो प्रावरणबलीवर्दयोः ॥ २८ ॥ अनयोरेतौ क्रमात् स्तः । पाउरणं । बइल्लो । हिज्जा ह्यस्थाने ॥ २९ ॥ ह्य इत्यर्थे हिज्जेति निपात्यते ।
१ प्रत्यूषव्युत्सर्जनयोः T. २ स्तः T. ३ एषु क्रमादेते T. ४ My. and P. omit the line. ५ My. and P. omit the line. ६ Sutra 20 is not found. It is given in the Appendix to the P. as षुग्गुळू अभिसारिकायाम् । ७ My. and P. omit the line. p. and My. omit the line.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org