________________
हलन्ताः स्त्रीलिङ्गाः। स्त्रियां वर्तमानस्यान्त्यरेफस्य रा इत्ययमादेशो भवति । गिरा। धूर् । धुरा । पूर् । पुरा । इत्यादि । जायावत् ॥ चतुशब्दस्य पुल्लिङ्गवत् ॥ लकारञकारान्तावप्रसिद्धौ ॥ मकारान्तस्त्रीलिङ्गः किंशब्दः । पूर्ववत् कादेशे । 'पुंसोजाते ब्वा' इत्यतः 'डीबू वा' इत्यधिकृत्य किंयत्तदोस्वमामि सुपि ॥२।२। ४० ॥
सु अम् आम् वर्जिते सुपि परे किंयत्तद्भयो ङीब् वा स्यात् । पक्षे विकल्पसामर्थ्यादेव टाप् । विकल्पस्य प्रायः समशिष्टवस्तुद्वयविषयत्वनियमात् । का। कीओ। कीउ । की । काओ। काउ । का । अमि । कं । शसि । जखत् । जश्शसोः 'शोशू स्त्रियां तु' इति शोशू । टाँवचने । की। कीआ । कीइ । कीए । टापि शावर्जितं त्रयम् । काअ । काइ। काए । अत्र 'टाङिङसाम्' इति शशाशिशे । भिसि । कीहिं । इत्यादि । काहिं । इत्यादि च । ङसौ। शशाशिशे । टावत् । भ्यसि । कीहिंतो। इत्यादि । काहिंतो । इत्यादि । ङसि । 'किंयत्तद्भयो ङस्' इत्यतः 'ङस्' इत्यधिकृत्य 'अनिदमेतदस्तु-' इत्यादेः 'तु' इत्यनुवर्तते ।
ईतः से सार् ॥ २ । २ । ६८ ॥
ईकारान्तेभ्यः किंयत्तद्भयः परो ङस् से सा इत्यादेशावापद्यते । कीसे । किस्सा । अत्र रित्वावित्वम् । पक्षे । कीअ । कीआ। कीइ । कीए । काअ । काइ । काए । 'किंयत्तद्भयो ङस्' इति सकारश्च । कीस । कास । काणं । काण । ङौ । शशाशिशे । कीअ । इत्यादि । काअ । इत्यादि चे । टॉवत् । 'अनिदमेतदस्तु किंयत्तदस्त्रियामपि हिं' इति डेहि । काहिं । ईकारान्ते हिं नास्ति । हिमोकारान्तविषय
- १°मादेशः स्यात् R., T. २ चतुशब्दः P., My. ३ इत्यधिकृत्य
M., R., T. ४ टा M. ५ M. and T. drop च. ६ M. and T. drop टावत्. ७ हिमोदन्तविषयत्वात् । M. and T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org