________________
७६
षड्भाषाचन्द्रिकायां 'टो डः' इत्यतः 'डः' इत्यनुवर्तते । अत्रादेरवर्णस्य खप्नादित्वादित्वे सति तोस्तवर्गस्य उत्वं भवति । वेडिसो । 'इति' इति किम् । वेअसो।
प्रतिगेप्रतीपगे ॥ १।३ । ३३ ॥ 'तोः' इत्यनुवर्तते । प्रत्यादिषु तवर्गस्य डो भवति । अप्रतीपगे। प्रतीपादीन् वर्जयित्वा । प्रतिपन्नः । पडिवण्णो । प्रतिभासः । पडिहासो । इत्यादि । प्रत्यादि-प्रतिपन्न । प्रतिभास । प्रतिहार । प्रतिस्पर्धि । प्रतिनिवृत्त । प्रतिकरोति । प्रेतिपद् । प्रतिश्रुत् । प्रतिमा । प्रभृति । भृत । भिन्दैिपाल । पताका । प्राभृतक। विभीतक । व्याप्त । कन्दलिका । हरीतकी । इत्यादि । 'अप्रतीपगे' इति किम् । प्रतीपम् । पईवैम् । प्रतीपादि-प्रतीप । प्रतिज्ञान । प्रतिसमय । प्रतिष्ठा । प्रतिष्ठान । इत्यादि । दम्भदरदर्भगर्दभदष्टदशनदग्धदाहदोहददोलादण्डकदने तु
॥१२ । ३५॥ 'ड' इत्यनुवर्तते । 'तोः' इति च । दम्भादिषु तवर्गस्य डो वा स्यात् । डंभो । डरो । डब्भो । डट्ठो । पक्षे । दंभो । दरो। दब्भो । दट्ठो । दरशब्दोत्रं भयार्थ एंव ग्राह्यः । अन्यत्र । दरदलिआ । दरदलिता । दोहदे दम्भादिसाहचर्यादाद्यस्यैव । डोहओ ॥
तुच्छे चच्छौ ॥ १।३।३६॥ अत्र तवर्गस्य चकारच्छकारौ क्रमाद्भवतः । तुच्छः । चुच्छो । छुच्छो । टल् त्रसरन्ततूवरतगरे ॥ १।३ । ३७॥ एषु तवर्गस्य टकारो भवति । लित्वान्नित्यम् । टसरो । टूवरो । १ इत्यनुवर्तते M.; इत्यतो डत्वमनुवर्तते T. २ P., My., and M. drop प्रतिपद्. ३ भिन्दिवाल । Mr., P., M. ४ R. and T. have after this प्रपादः । प्रतिपदम् पइपदम्। ५ प्रतिज्ञा । संप्रति । R., T. ६ M. and R. drop अत्र. ७ भयार्थो वृत्तो T., R. ८ एवात्र ग्राह्यः । M. ९ R. drops ग्राह्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org